698

औदार्यं यथा—

1349भ्रूभेदे सहसोद्गतेऽपि1350 वदनं नीतं परां नम्रता- मीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम् ।
अन्तर्बाष्पजलीकृतं1351 प्रभुतया चक्षुर्न विस्फारितं कोपश्च प्रकटीकृतो दयितया मुक्तश्च न 1352प्रत्ययः ॥ ४३१ ॥’

महाभाग्यं यथा—

‘तां नारदः कामचरः कदाचित्कन्यां किल प्रेक्ष्य पितुः समीपे ।
समादिदेशैकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य ॥ ४३२ ॥’

कृतज्ञता यथा—

‘पुरिससरिसं तुह इमं रक्खससरिसं 1353कअं णिसाअरवइणा ।
कह ता 1354चिंतिज्जंतं1355 महिलासरिसं ण संपडइ मे मरणं ॥ ४३३ ॥’
[पुरुषसदृशं तवेदं राक्षससदृशं कृतं निशाचरपतिना ।
कथं तावच्चिन्तितसुलभं महिलासदृशं न संपद्यते मे मरणम् ॥]

रूपसंपद् यथा—

‘आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः ।
उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥ ४३४ ॥’

यौवनसंपद् यथा—

‘उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम् ।
बभूव तस्याश्चतुरस्रशोभि वपुर्विभक्तं नवयौवनेन ॥ ४३५ ॥’

वैदग्ध्यसंपद् यथा—

‘एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद्दूरत- 1356स्ताम्बूलानयनच्छलेन रभसाश्लेषोऽपि संविघ्नितः ।
  1. ‘भ्रभङ्गे’ मुद्रितरत्नावल्याम्
  2. ‘सहसा कृतेऽपि’ क
  3. ‘अन्तर्बाष्पजडीकृतं’ ख, मुद्रितरत्नावल्यां च
  4. ‘प्रत्ययः’ ख
  5. ‘किअं’ घ
  6. ‘आचिन्तिज्जं’ क ख
  7. ‘चिन्तिअसुलहं’ इति काव्यमालामुद्रिते सेतुबन्धे
  8. ‘ताम्बूलाहरणच्छलेन’ घ, काव्यमालामुद्रितेऽमरुशतके च