699
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके
कान्तं 1357प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥ ४३६ ॥’
शीलसम्पद् यथा—
[चत्वरगृहिणी प्रियदर्शना च बाला प्रोषितपतिका च ।
असती प्रतिवेशिनी दुर्गता च न खलु खण्डितं शीलम् ॥]
सौभाग्यसम्पद् यथा—
‘संचारिणी दीपशिखेव रात्रौ
यं यं व्यतीयाय पतिंवरा सा ।
नरेन्द्रमार्गाट्ट इव प्रपेदे
विवर्णभावं स स भूमिपालः ॥ ४३८ ॥’
मानिता यथा—
‘शैलात्मजापि पितुरुच्छिरसोऽभिलाषं
व्यर्थं समर्थ्य ललितं वपुरात्मनश्च ।
सख्योः समक्षमिति चाधिकजातलज्जा
शून्या जगाम भवनाभिमुखं कथंचित् ॥ ४३९ ॥’
उदारवाक्यत्वं यथा—
‘यथा श्रुतं वेदविदां वर त्वया
जनोऽयमुच्चैः पदलङ्घनोत्सुकः ।