699
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं 1357प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥ ४३६ ॥’

शीलसम्पद् यथा—

1358चत्तरघरिणी पिअदंसणा अ 1359बाला पउत्थवइआ1360 अ ।
1361असई सअज्झिआ दुग्गआ अ ण हु खंडिअं सीलम् ॥ ४३७ ॥’
[चत्वरगृहिणी प्रियदर्शना च बाला प्रोषितपतिका च ।
असती प्रतिवेशिनी दुर्गता च न खलु खण्डितं शीलम् ॥]

सौभाग्यसम्पद् यथा—

‘संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा ।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥ ४३८ ॥’

मानिता यथा—

‘शैलात्मजापि पितुरुच्छिरसोऽभिलाषं व्यर्थं समर्थ्य ललितं वपुरात्मनश्च ।
सख्योः समक्षमिति चाधिकजातलज्जा शून्या जगाम भवनाभिमुखं कथंचित् ॥ ४३९ ॥’

उदारवाक्यत्वं यथा—

‘यथा श्रुतं वेदविदां वर त्वया जनोऽयमुच्चैः पदलङ्घनोत्सुकः ।
  1. ‘प्रत्युपकारतः’ ख
  2. ‘चतुरघरिणी’ क ख, ‘चत्वरघरिणी’ ग, ‘चत्वरघरणी’ घ, ‘चत्तरघरिणी’ च गाथासप्त॰
  3. ‘तरुणी’ गाथासप्त॰
  4. ‘पउत्थपइआ’ गाथासप्त॰
  5. ‘असइसअण्णआ’ क, ‘असर(इ)सअज्जिआ’ ख, ‘असईसपज्जिआ' गाथासप्त॰