700
तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ॥ ४४० ॥’

स्थिरानुरागिता यथा—

‘अलं विवादेन यथा श्रुतं त्वया1362 तथाविधस्तावदशेषमस्तु सः ।
ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते ॥ ४४१ ॥’

पाकभक्तिषु आदावस्वादु, अन्ते स्वादु मृद्वीकापाकं यथा—

‘प्राक्कामं दहता कृतः परिभवो येनाथ 1363संध्यावतौ सेर्ष्या वोऽवतु चण्डिका चरणयोस्तं पातयन्ती पतिम् ।
1364कुर्वन्त्याभ्यधिकं कृते प्रतिकृतं मुक्तेन मौलौ मुहु- 1365र्बाष्पेणाहृतकज्जलेन लिखितं लक्ष्मेव चन्द्रे यथा ॥ ४४२’ ॥

आद्यन्तयोः स्वादु नारिकेलीपाकं1366 यथा—

‘जह इच्छा तह रमिअं जाआ पत्ता 1367पइं गआ धूआ ।
घरसामिअस्स1368 अज्ज वि 1369सकोउहल्लाइँ अच्छीइं ॥ ४४३ ॥’
[यथेच्छा तथा रमितं जाया प्राप्ता पतिं गता दुहिता ।
गृहस्वामिनोऽद्यापि सकौतूहलान्यक्षीणि ॥]

आदिमध्यान्तेषु स्वादु स्वादुतरं स्वादुतममित्याम्रपाकं यथा—

‘शापादसि प्रतिहता स्मृतिलोपरूक्षे1370 भर्तर्यपेततमसि1371 प्रभुता तवैव ।
  1. ‘श्रुतस्त्वया’ इति मुद्रिते कुमारसंभवे
  2. ‘संध्यानतः’ ख
  3. ‘कुर्वन्त्यभ्यधिकं’ ख
  4. ‘बाष्पेणादृतकज्जलेन’ इति
  5. ‘नारिकेलीरीतिपाको’ क, ‘नारिकेलीपाकं’ घ
  6. ‘पदं’ ख
  7. ‘घरसामिअस्स अस्स’ ख
  8. ‘सोकोऊहछाइ अइम्' क, ‘सोकोउहच्छाइ अच्छीइ’ ख
  9. ‘स्मृतिरोधरूक्षे’ इति मुद्रिते शाकुन्तले
  10. ‘भर्तुर्व्यपेततमसि’ क