700
तपः किलेदं तदवाप्तिसाधनं
मनोरथानामगतिर्न विद्यते ॥ ४४० ॥’
स्थिरानुरागिता यथा—
‘अलं विवादेन यथा श्रुतं त्वया1362
तथाविधस्तावदशेषमस्तु सः ।
ममात्र भावैकरसं मनः स्थितं
न कामवृत्तिर्वचनीयमीक्षते ॥ ४४१ ॥’
पाकभक्तिषु आदावस्वादु, अन्ते स्वादु मृद्वीकापाकं यथा—
आद्यन्तयोः स्वादु नारिकेलीपाकं1366 यथा—
[यथेच्छा तथा रमितं जाया प्राप्ता पतिं गता दुहिता ।
गृहस्वामिनोऽद्यापि सकौतूहलान्यक्षीणि ॥]
आदिमध्यान्तेषु स्वादु स्वादुतरं स्वादुतममित्याम्रपाकं यथा—