701
छाया न मूर्च्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा ॥ ४४४ ॥’

यन्नापैति न चातिशोभते तन्नीलीरागं यथा—

1372हीत्वा सीतां दशमुखरिपुर्नोपयेमे यदन्यां तस्या एवं प्रतिकृतिसखो यत्क्रतूनाजहार ।
वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः सा 1373दुर्वारव्यथमपि परित्यागदुःखं विषेहे ॥ ४४५ ॥’

1374यदपैति च शोभते च तत्कुसुम्भरागं यथा—

‘वहुवल्लहस्स जा होइ वल्लहा कह वि पंचदिअहाइं ।
सा किं छट्ठं 1375मग्गइ कत्तो 1376मिट्ठं च बहुअं च1377 ॥ ४४६ ॥’
[बहुवल्लभस्य या भवति वल्लभा कथं कथमपि पश्चदिवसानि ।
सा किं षष्ठं मार्गते कुतो मृष्टं च बहुकं च ॥]

1378यन्नापैत्यति च शोभते तन्मञ्जिष्ठारागं यथा—

‘वेवइ जस्स सविडिअं वलिउं महइ पुलआइअत्थणअलसं ।
पेम्मसहावविमुहिअं 1379वीओवासगमणूसुअं वामद्धम् ॥ ४४७ ॥’
[वेपते यस्य सव्रीडं वलितुं वाञ्छति पुलकाञ्चितस्तनकलशम् ।
प्रेमस्वभावविमुक्तं द्वितीयपार्श्वगमनोत्सुकं वामार्धम् ॥]
  1. ‘सीतां हित्वा’ S. P. Pandit M. A. संपादिते रघुवंशे
  2. ‘दुर्वारं कथमपि’ ख मुद्रिते रघुवंशे च
  3. ‘यदपैति न च शोभते च’ क
  4. ‘मग्गई’ गाथासप्त॰
  5. ‘मिठ्ठं अ’ इति गाथासप्त॰
  6. ‘बहुअअ’ इति गाथासप्त॰
  7. ‘यन्नापैति अपि च शोभते’ ख
  8. ‘वीआवासगमणूसुअं’ इति काव्यमालामुद्रिते सेतुबन्धे, ‘द्वितीयावकाशगमनोत्सुकं इति च्छाया च