702
गूढव्यलीकमन्तर्व्याजं यथा—
‘प्रत्यग्रोज्झितगोकुलस्य शयनादुत्स्वप्नमूढस्य मे
सा गोत्रस्खलनादपैतु च दिवा राधेति भीरोरिति ।
रात्रावस्वपतो दिवा च विजने 1380लक्ष्मीति चाभ्यस्यतो
राधां प्रस्मरतः श्रियं रमयतः खेदो हरेः पातु वः ४४८’
अगूढव्यलीकं बहिर्व्याजं यथा—
‘चक्षुर्यस्य तवाननादपगतं नाभूत्क्वचिन्निर्वृतं
येनैषा सततं त्वदेकशयनं वक्षःस्थली कल्पिता ।
येनोक्तासि विना त्वया मम जगच्छून्यं क्षणाज्जायते
सोऽयं दम्भधृतव्रतः प्रियतमः कर्तुं किमप्युद्यतः1381 ॥ ४४९ ॥’
1382अव्यलीकं निर्व्याजं यथा—
धर्मानुबन्धि 1387धर्मोदर्कं यथा—
‘अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे
नृपतिककुदं दत्वा यूने सितातपवारणम् ।
मुनिवनतरुच्छायां देव्या तया सह शिश्रिये
गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ॥ ४५१ ॥’