702

गूढव्यलीकमन्तर्व्याजं यथा—

‘प्रत्यग्रोज्झितगोकुलस्य शयनादुत्स्वप्नमूढस्य मे सा गोत्रस्खलनादपैतु च दिवा राधेति भीरोरिति ।
रात्रावस्वपतो दिवा च विजने 1380लक्ष्मीति चाभ्यस्यतो राधां प्रस्मरतः श्रियं रमयतः खेदो हरेः पातु वः ४४८’

अगूढव्यलीकं बहिर्व्याजं यथा—

‘चक्षुर्यस्य तवाननादपगतं नाभूत्क्वचिन्निर्वृतं येनैषा सततं त्वदेकशयनं वक्षःस्थली कल्पिता ।
येनोक्तासि विना त्वया मम जगच्छून्यं क्षणाज्जायते सोऽयं दम्भधृतव्रतः प्रियतमः कर्तुं किमप्युद्यतः1381 ॥ ४४९ ॥’

1382अव्यलीकं निर्व्याजं यथा—

‘किं कण्ठे शिथिलीकृतो भुजलतापाशः प्रमादान्मया 1383निद्राच्छेदविवर्तनेष्वभिमुखी नाद्यापि संभाविता1384
अन्यस्त्रीजनसंकथालघुरहं स्वप्ने त्वया लक्षितो1385 दोषं पश्यसि कं1386 प्रिये परिजनोपालम्भयोग्ये मयि ॥ ४५० ॥’

धर्मानुबन्धि 1387धर्मोदर्कं यथा—

‘अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्वा यूने सितातपवारणम् ।
मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ॥ ४५१ ॥’
  1. ‘नामेति चाभ्यस्यता राधां॰’ क
  2. ‘किमभ्युद्यतः’ क ख
  3. ‘अव्यलीकनिर्व्याजं यथा’ क
  4. ‘निद्रोच्छेदविवर्तनेषु’ क ख
  5. ‘संभाषिता’ क ख
  6. ‘वीक्षितो’ क ख
  7. ‘किम्’ क ख
  8. ‘धर्मोदकं’ घ