703

अर्थानुबन्धि अर्थोदर्कं यथा—

‘भूत्वा चिराय चतुरन्तमहीसपत्नी1388 1389दौष्यन्तिमप्रतिरथं तनयं प्रसूय1390
1391मर्त्रा तदर्पितकुटुम्बभरेण सार्धं शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥ ४५२ ॥’

यत्पुनः काममेवानुबध्नाति तत्कामोदर्कं यथा—

‘अद्वैतं सुखदुःखयोरनुगुणं1392 सर्वास्ववस्थासु य- द्विस्रम्भो1393 हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः ।
कालेनावरणात्यया1394त्परिणते यत्स्नेहसारे1395 स्थितं 1396भद्रं तस्य सुमानुषस्य कथमप्येकं हि यत्प्राप्यते1397 ॥ ४५३ ॥’

‘नानालंकारसंसृष्टेः 1398प्रकाराश्च रसोक्तयः ।

इत्युक्तं तत्र ‘अलंकारसंसृष्टेः’ इतीयत्येव1399 वक्तव्ये नानालंकारग्रहणं1400 गुणरसानामुपसंग्रहार्थम् । तेषामपि हि काव्यशोभाकरत्वेनालंकारत्वात् ॥ यदाह—

काव्यशोभाकरान्धर्मानलंकारान्प्रचक्षते ।
ते चाद्यापि विकल्प्यन्ते कस्तान्कार्त्स्न्येन वक्ष्यति ॥
काश्चिन्मार्गविभागार्थमुक्ताः प्रागप्यलंक्रियाः ।
साधारणमलंकारजा1401तमन्यत् प्रदर्श्यते ॥
  1. ‘सदिगन्तमहीसपत्नी’ ख
  2. ‘दौष्षन्तिम्’ ख
  3. ‘निवेश्य’ इति मुद्रिते शाकुन्तले
  4. ‘तत्संनिवेशितभरेण सहैव भर्त्रा’ क ख
  5. ‘अनुगतं’ इति मुद्रित उत्तररामचरिते
  6. ‘विश्रामो’ क ख मुद्रित उत्तररामचरिते च
  7. ‘परिणतेर्यत्’ ख ग
  8. ‘प्रेमसारे’ इति मुद्रित उत्तररामचरिते
  9. ‘भद्रे’ घ, ‘भद्र’ (द्रे वा द्रं?)ग
  10. ‘तत्प्रार्थ्यते’ क मुद्रित उत्तररामचरिते च । ‘यत्प्रार्थ्यते’ ख
  11. ‘प्रकाराश्च’ घ
  12. ‘इत्येव’ क ख
  13. ‘नानालङ्कारग्रहणं’ ख
  14. ‘अलङ्कारं जातमन्यत्’ ख