570
365पात्राणां वर्णनं काव्ये रसस्त्रोतोऽधितिष्ठति ॥ १३२ ॥
उद्यानसलिलक्रीडामधुपानरतोत्सवाः ।
विप्रलम्भा विवाहाश्च चेष्टाः काव्ये रसावहाः ॥ १३३ ॥
मन्त्रदूतप्रयाणाजिनायकाभ्युदयादिभिः ।
पुष्टिः पुरुषकारस्य रसं काव्येषु वर्षति ॥ १३४ ॥
नावर्णनं नगर्यादेर्दोषाय विदुषां मतम् ।
यदि शैलर्तुरात्र्यादेर्वर्णनेनैव 366तुष्यति ॥ १३५ ॥
गुणतः प्रागुपन्यस्य नायकं तेन विद्विषाम् ।
निराकरणमित्येष मार्गः प्रकृतिसुन्दरः ॥ १३६ ॥
367वंशवीर्यश्रुतादीनि वर्णयित्वा रिपोरपि ।
तज्जयान्नायकोत्कर्षकथनं च धिनोति नः ॥ १३७ ॥

अथैषां लक्षणोदाहरणानि—

368तत्र,

मनोनुकूलेष्वर्थेषु सुखसंवेदनं रतिः ।
369असंप्रयोगविषया सैव प्रीतिर्निगद्यते ॥ १३८ ॥

तद्रूपेण रसस्य भावो यथा—

‘हरस्तु किंचित्प370रिवृत्तधैर्यश्चन्द्रोयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे ब्यापारयामास विलोचनानि ॥ १ ॥’

अत्र बिम्बोष्ठत्वादिभिर्मनोनुकूले पार्वतीमुखे विलोचनव्यापारानुमितो महेश्वरस्याभिलाषविशेषः 371सात्त्विकादेरनु372त्पादात्सुखानुभवस्योत्पत्तिमात्रमनुमापयति ॥

  1. ‘पात्राणां वर्णनात्काव्ये’ क ख
  2. ‘पुष्यति’ ख
  3. ‘बंशवृत्तश्रुत्तादीनि’ क ख
  4. ‘तत्र’ क ख नास्ति
  5. ‘आसंप्रयोगविषया’ क ख
  6. ‘परिलुप्तधैर्यः’ ख
  7. ‘सात्त्विको’ क ख
  8. ‘रत्युत्पादात्’ क