704

तत्र ‘काव्यशोभाकरान्’ इत्यनेन श्लेषोपमादिवद्गुणरसभावतदाभासप्रशमा1402दीनप्युपगृह्णाति1403 । मार्गविभागंकृद्गुणानामलंक्रियोपदेशेन श्लेषादीनां गुणत्वमिवालंकारत्वमपि ज्ञापयति—

श्लेषः प्रसादः समता माधुर्यं सुकुमारता ।
अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ॥
इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः ।
तेषां विपर्ययः प्रायो 1404लक्ष्यते गौडवर्त्मनि ॥

इति श्लेषादीनां दशानामेव 1405मार्गप्रविभागकारितां ब्रुवन्काव्यशोभाकरत्वेन गुणान्तराणामप्यलंकारत्वमुपकल्पयति ॥ तदाह, ‘कस्तान्कार्त्स्न्येन 1406वक्ष्यति’ । युक्तमिदमुक्तम् । अयुक्तं त्विदमुक्तं रसानामलंकारतेति ॥

तेषां गुणानामिवालंकारव्यपदेशाभावात् । नायुक्तम् । 1407युक्तोत्कर्षाणामूर्जस्विरसव1408त्प्रेयसामलंकारेषूपदेशात् । तद् यथा—

प्रेयः प्रियतराख्यानं रसवद् रसपेशलम् ।
ऊर्जस्वि रूढाहंकारं युक्तोत्कर्षं च तत्त्रयम् ॥ १७२ ॥

तत्रोर्जस्वि रूढाहंकारमित्यनेन आत्मविशेषनिष्ठस्योत्कृष्टा1409दृष्टजन्मनोऽनेकजन्मानुभव1410संस्काराहितद्रढिम्नः 1411संग्रामे गुणसंपदुत्पादातिशयहेतोरलंकार1412विशेषस्योपसंग्रहादहंकाराभिमानश्रृङ्गारापरनाम्नो रसस्य मानमयविकाररूपेणाभिमानिनां मनसि जाग्रतः परां कोटिमुपवर्णयति । रस-

  1. ‘प्रसादादीन्’ ख
  2. ‘अनुगुह्णाति’ क
  3. ‘गौडवर्त्मनि लक्ष्यते’ क
  4. ‘मार्गप्रतिभाकारितां’ क
  5. ‘इति’ इत्यधिकं क
  6. ‘उक्तोत्कर्षाणाम्’ ख
  7. ‘प्रेयानामुपदेशेन’ क
  8. ‘उत्कृष्टजन्मनो’ ख
  9. ‘संस्कारा हि तद्द्रढिम्नः’ ख
  10. ‘संग्रामेण सम्पदुत्पादातिशयहेतोः’ क
  11. ‘अलंकारविशेषस्य’ इत्यस्य स्थाने ‘विशेषस्य’ ख