705 वद्रसपेशलमित्यनेन विभावानुभावव्यभिचारिसात्त्विकसंयोगाद्रसनिष्पत्तिरिति रत्यादिरूपेणानेकधाविर्भवतोऽभिवर्धमानस्य1413 परप्रकर्षगामिनः श्रृङ्गारस्य 1414मध्यावस्थां सूचयति । प्रेयः 1415प्रियतराख्यानमित्यनेन समस्तभावमूर्धाभिषिक्ताया रतेः 1416परप्रकर्षाधिगमाद् 1417भावनाधिगमे भावरूपतामुल्लङ्घ्य प्रेमरूपेण 1418परिणताया उपादानाद् भावान्तराणामपि परप्रकर्षाधिगमे रसरूपेण परिणतिरिति 1419ज्ञापयन्नहंकारस्योत्तरां कोटिमुपलक्षयति । सर्वेषामपि हि रत्यादिप्रकर्षाणां रतिप्रियो रणप्रियः परिहासप्रियोऽमर्षप्रिय इति 1420प्रेम्णयेव पर्यवसानं भवति । युक्तोत्कर्षं च तत् त्रयमित्यनेनायुक्तोत्कर्षाणां त्रयाणामप्यूर्जस्विप्रभृतीनां गुणत्वमेव नालंकारत्वमित्यवस्थापयति । तथा हि—और्जित्यं भाविकत्वं1421 प्रेय इति गुणेषूपदिश्यते,1422 कुतः पुनरिदमेकदोर्जस्वि—रसवत्—प्रेयसामलंकारत्वमन्यदा गुणत्वम्1423

उच्यते—

भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ।
संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥

यथा गोमान् देशः, वाचालो बटुः, वाग्मी विपश्चित्, 1424क्षीरिणो वृक्षाः, बलवान् मल्लः1425 दण्डी, गोमती 1426शालेति । तत्रोर्जस्विरसवतोरलंकारत्वविवक्षायामतिशायने1427 भूम्नि वा 1428मत्वर्थीयः । गुणत्वविवक्षायां तु

  1. ‘विवर्धमानस्य’ ग
  2. ‘मध्यमावस्थाम्’ क ख
  3. ‘प्रे[यः प्रि ?]यतराख्यानम्’ क, ख पुस्तके ‘प्रियः’ नास्ति
  4. ‘परप्रकर्षाधिगमात्’ इत्यस्य स्थाने ‘प्रकर्षाधिगमात्’ ख
  5. ‘भावनाभिगमे’ क ख
  6. ‘परिणतायामुपादानात्’ क, ‘परिणता [या] उपादानात्’ ग
  7. ‘ज्ञापयन्नलङ्कारस्योत्तरां’ ख
  8. ‘प्रेमण्येब’ क, ‘प्रेम्णएव’ ख
  9. भाविकं प्रेय’ क ख
  10. ‘गुणेषु भण्यते’ क ख
  11. ‘अन्यदा गुणत्वम्’ क
  12. ‘फलिनो वृक्षाः’ क
  13. ‘मन्दो’ क
  14. ‘शोणेति’ क
  15. ‘अतिशायने वा’ क ख
  16. ‘मतुबर्थीयः’ क ख