यथा गोमान् देशः, वाचालो बटुः, वाग्मी विपश्चित्, 1424क्षीरिणो वृक्षाः, बलवान् मल्लः1425 दण्डी, गोमती 1426शालेति । तत्रोर्जस्विरसवतोरलंकारत्वविवक्षायामतिशायने1427 भूम्नि वा 1428मत्वर्थीयः । गुणत्वविवक्षायां तु 706 प्रशंसानित्ययोरिति योगयोरिति द्रष्टव्यम् । नित्यो हि काव्ये गुणयोग इव रसादियोगः । गुणवतो रसवतश्च निश्चितैवास्य प्रशंसा । संसर्गस्तु गुणानामवश्यमुपादानेषु । निन्दा पुनर्दोषहानेर्नावतरति1429 । गुणेषु 1430प्रेय इति रूपाभेदात् कथमलंकारत्वे तदुत्कर्षप्रतीतिः । यथा ‘युधिष्ठिरः श्रेष्ठतमः कुरूणाम्’ इति तत्रातिशायिकान्तरेण1431 तदवगतिरिति चेत् इहापि ‘युक्तोत्कर्षं च तत्त्रयम्’ इति वाक्यान्तरेण भविष्यति । न चातिशायिका स्वार्थातिरिक्तं किमपि ब्रुवते, अपि तु प्रकृत्युपात्तमेव प्रकर्षादिकं गमयन्ति । स्वार्थिकेषु ह्येते विधीयन्ते । एवमवस्थापिते गुणरसानामलंकारत्वे 1432षट्प्रकारो रसालंकारसंकरः संभवति—गुणसंकरः, अलंकारसंकरः, गुणालंकारसंकरः, रससंकरः, रसगुणसंकरः, 1433रसालंकारसंकरः इति । 1434ननु च गुणानां संकरव्यवहारो नोपपद्यते बहुष्वपि गुणेषु गुणवदित्येव व्यपदेशात् । मैवम् । त्रिविधा गुणाः—शब्दगुणाः, अर्थगुणाः, दोषगुणाश्च । ते तु प्रत्येकं द्विधा—उल्लेखवन्तः, निरुल्लेखाश्च । तत्र शब्दगुणेषु समाधिमाधुर्यौदार्यगाम्भीर्यादयः सोल्लेखाः, श्लेषप्रसादसमता1435माधुर्यादयो निरुल्लेखाः । अर्थगुणेषु प्रसादरीतिकान्त्यादयः सोल्लेखाः, अर्थव्यक्तिसौक्ष्म्य1436गाम्भीर्यसंमितत्वादयो निरुल्लेखाः । दोषगुणेषु ग्राम्यपुनरुक्तापार्थान्यार्थादयः सोल्लेखाः, शब्दहीनसंभ्रमापक्रमविंसन्ध्यादयो निरुल्लेखाः । तत्र सजातीयानां सोल्लेखानामेवं, 1437विजातीयानां तु निरुल्लेखानामपि संकरव्यवहारः प्रवर्तते ॥

  1. ‘फलिनो वृक्षाः’ क
  2. ‘मन्दो’ क
  3. ‘शोणेति’ क
  4. ‘अतिशायने वा’ क ख
  5. ‘मतुबर्थीयः’ क ख
  6. ‘दोषहानेर्न’ वितरति’ क, ‘दोषहानेन वितरति’ ख
  7. ‘प्रेम इति’ ख
  8. ‘तत्रातिशायिगुणान्तरेण’ क ख
  9. ‘षट्प्रकारको’ क
  10. ‘रसालंकारसंकरश्चेति’ क ख
  11. ‘नन्वत्र’ क ख
  12. ‘सौकुमार्यादयो’ क ख
  13. ‘गाम्भीर्यादयो’ ख
  14. ‘विजातीयानां विजातीयानां तु’ घ