707

सजातीयानां शब्दगुणेषु समाध्यादीनां यथा—

‘णवपल्लवेसु लोलइ घोलइ 1438विडवेसु वलइ सिहरेसु ।
थवइ थवएसु अ 1439तहा वसंतलच्छी असोअस्स ॥ ४५५ ॥’
[नवपल्लवेषु लोलति घूर्णते विटपेषु वलते शिखरेषु ।
स्थगति स्तबकेषु च तथा वसन्तलक्ष्मीरशोकस्य ॥]

अत्रान्यधर्माणामन्यत्रारोपणं समाधिः पृथक्पदता माधुर्यं, 1440बन्धविकटत्वमुदारता, 1441ध्वनिमत्ता, गाम्भीर्यमिति सजातीयाः संकीर्यन्ते । यतो वसन्तलक्ष्मीरशोकस्येति पदयोः शब्दध्वनिरपि परिस्फुरति । यथा कस्यचिदशोकस्य मानिनोऽङ्गेषु प्रियाङ्गना सविलासं चेष्टते तथास्येयमिति ॥

1442अर्थगुणेषु श्लेषादीनां यथा—

‘जनः पुण्यैर्यायाज्जलधिजलभावं जलमुच- स्तथावस्थं चैनं निदधतु 1443शुभैः शुक्तिवदने ।
ततस्तां श्रेयोभिः परिणतिमसौ विन्दतु 1444यया रुचिं तन्वन्पीनस्तनि हृदि तवायं विलुठति ॥ ४५६ ॥’

अत्र 1445संविधाने सुसूत्रता श्लेषः, अर्थस्य प्राकट्यं प्रसादः, उत्पत्त्यादिक्रियाक्रमो रीतिः दीप्तरसत्वं कान्तिरित्यर्थगुणाः सजातीयाः संकीर्यन्ते ॥

दोषगुणेषु 1446ग्राम्यादीनां यथा—

‘हन्यते सा वरारोहा स्मरेणाकाण्डवैरिणा ।
हन्यते चारुसर्वाङ्गी हन्यते मञ्जुभाषिणी ॥ ४५७ ॥’

अत्र हन्यत 1447इत्यमङ्गलार्थम्, वरारोहेत्यश्लीलार्थम्, 1448हन्यते हन्यत

  1. ‘विलवेसु’ क ख ग
  2. ‘महा’ क
  3. ‘बन्धविगूढत्वम्’ ख
  4. ‘ऽध्वनिमत्ता’ घ
  5. ‘अन्यार्थगुणेषु’ क
  6. ‘शुभे’ क
  7. ‘यथा’ क ख
  8. ‘संविधानेषु सूत्रता’ ख
  9. ‘श्रमादीनां’ क
  10. ‘इत्यसङ्गतार्थम्’ ख
  11. ‘हन्यते’ क ख