708 इति पुनरुक्तम्, चारुसर्वाङ्गीत्युक्त्वा 1449वरारोहेति व्यर्थम्, त एते सजातीयाश्चत्वारोऽपि दोषगुणाः संकीर्यमाणाः कस्यचिदुन्मत्तभाषिणोऽनुकम्पाद्यतिशयविवक्षायामभ्यनुज्ञायन्ते ॥ यदाह—

1450अनुकम्पाद्यतिशयो यदि कश्चिद्विवक्ष्यते1451
न दोषः पुनरुक्तादौ प्रत्युतेयमलंक्रिया ॥

1452अर्थासजातीयानां शब्दगुणानामर्थगुणानां च संकरो यथा—

‘को नाम नोदयति नास्तमुपैति को वा लोकोत्तरः पुनरयं सविता जगत्सु ।
यत्रोदयास्तमयभाजि रुचां निधाने द्वेधा भवत्यहरिति क्षणदेति कालः ॥ ४५८ ॥’

अत्र यावदर्थपदता 1453संमितत्वम्, सम्यग्बन्धविकटत्वमुदारता, 1454श्लाध्यविशेषगुणयोग उदात्तत्वमिति शब्दगुणाः, उक्तार्थनिर्वहणं प्रौढिः, अर्थप्राकट्यं प्रसादः, रूढाहंकारतौर्जित्यमित्यर्थगुणाः संकीर्यन्ते ॥

शब्दगुणानां दोषगुणानां च यथा—

‘एह्येहि वत्स रघुनन्दन पूर्णचन्द्र चुम्बामि मूर्धनि 1455चिरं च परिष्वजे त्वाम् ।
आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथवा चरणपुष्करकद्वयं ते ॥ ४५९ ॥

अत्र भावतो 1456वाक्प्रवृत्तिर्भाविकत्वम्, प्रसिद्धार्थपदता प्रसादः, 1457प्रियार्थपदोपादानं प्रेय इति शब्दगुणाः, एह्येहीति पुनरुक्तम्, वत्से-

  1. ‘उक्तौ’ क ख
  2. ‘अनुकम्पाद्यतिशयं’ ख
  3. ‘विवक्षते’ ख
  4. ‘अथ सजातीयाम्’ ख घ
  5. ‘सस्मितत्वम्’ ख
  6. ‘श्लाघ्यविशेषगुणयोग’ इत्यस्य स्थाने ‘विशेषगुणयोग’ क ख
  7. ‘चिराय’ क ख मुद्रिते महारवीरचरिते च
  8. ‘वाक्प्रतिपत्तिः’ क ख
  9. ‘प्रियार्थपदोपादानम्’ क ख