571

तद्रूपेणैव सात्त्विकोत्पत्तौ जन्म यथा—

373अभूद्वरः कण्टकितप्रकोष्ठः खिन्नाङ्गुलिः संववृते कुमारी ।
374तस्मिन्द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन ॥ २ ॥’

अत्र स्वेदरोमोद्भेदयोः375 सात्त्विकयोरुत्पादाद्रसस्य रतिरूपेणाविर्भावोऽवगम्यते ।

जन्मैव 376संचार्युत्पत्तौ यथा—

377तयोरपाङ्गप्रविचारितानि किंचिव्द्य378वस्थापितसंहृतानि ।
ह्रीयन्त्रणामानशिरे मनोज्ञामन्योन्यलोलानि विलोचनानि ॥ ३ ॥’

अत्र ह्रीः संचारिभावो जायमानो रसस्य जन्म ज्ञापयति ।

379तदेवानुभावोत्पत्तौ यथा—

‘ततः सुनन्दावचनावसाने लज्जां 380मृदूकृत्य नरेन्द्रकन्या ।
दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव ॥ ४ ॥’

अत्र दृष्टिलक्षणः शरीरारम्भोऽनुभावो381 भवन् रसाविर्भावं लक्षयति । अनुभावादेरनेकस्यैकस्य वा पुनरुत्पत्तिरनुबन्धः । सोऽनेकस्य यथा—

‘विवृण्वती शैलसुतापि भावमङ्गैः 382क्वचिद्बालकदम्बकल्पैः ।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥ ५ ॥’
  1. ‘आसीद्वरः कण्टकितप्रकोष्ठः’ इति मल्लिनाथोट्टङ्कितः पाठः
  2. ‘वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य’ मुद्रितपाठः
  3. ‘स्वेदरोमोद्गमयोः’ ख
  4. ‘जन्मैव सत्त्वाद्युत्पत्तौ यथा’ ख
  5. अत्र च 'तयोरुपान्तप्रतिसारितानि’, ‘तयोरपाङ्गप्रतिचालिचानि’, ‘तयोरपाङ्गप्रतिवारितानि’ इत्येवंविधा अनेके पाठाः
  6. अत्रापि ‘क्रियासमापत्तिनिवर्तितानि’, ‘क्रियासमापत्तिविवर्तितानि’, ‘क्रियासमापत्तिषु कातराणि’, ‘तयोः समापत्तिषु कातराणि किंचिव्द्यवस्थापितसंहृतानि’ इत्येवंविधा अनेके पाठाः
  7. ‘तदेवानुभवोत्पत्तौ’ क, ‘तदेवानुभयोत्पत्तौ’ ख
  8. ‘तनूकृत्य’ मुद्रितपाठः
  9. ‘शरीरारम्भेऽनुभावो भवन्’ क ख, ‘शरीरानुभावो भवन्’ ग
  10. ‘स्फुरद्वालकदम्बकल्पैः’ ख मुद्रितकुमारे