709 त्युक्त्वा त्वत्पादाब्जद्वयं वन्द इति विरुद्धम्, मूर्ध्नि चुम्बामि हृदि वहामीत्यादौ वन्द इति क्रियास्वनुपयोगात् 1458पूर्णचन्द्रेतिदर्शनादिक्रियोपयोगि व्यर्थं चेति 1459दोषगुणाः संकीर्यन्ते । रसाक्षिप्तचित्तादौ हि पुनरुक्तादयो 1460न दुष्यन्ति ॥

अर्थगुणानां दोषगुणानां यथा—

‘किं द्वारि दैवहतिके सहकारकेण संवर्धितेन विषपादप एष पापः ।
अस्मिन्मनागपि विकासविकारभाजि भीमा भवन्ति मदनज्वरसंनिपाताः ॥ ४६० ॥’

अत्र दीप्तरसत्वं कान्तिः, अर्थप्राकट्यं प्रसादः, उक्तार्थनिर्वहणं प्रौढिरित्यर्थगुणाः, दैवहतिके विषपादपोऽयं पाप इत्यमङ्गलार्थं ग्राम्यं, किमनेन संवर्धितेनेत्यत्र मदनज्वरसंनिपाता इत्यत्र च कृत्यप्रयोजनादेर्विरहिणो द्रष्टुरित्यादेश्चाध्याहारादसंपूर्णवाक्यतायामर्थव्यक्तिविपर्ययः । अस्मिन्विकासविकारभाजीति विकासशब्दस्य पुष्पविषयत्वाद्वृक्षेऽपि प्रयोगोऽवाचकत्वादसमर्थ इति दोषगुणा मिथः संकीर्यन्ते । यतो रसाक्षेपात्परिहासलेशोक्त्यामङ्गलम्, प्रविश पिण्डीं द्वारं भक्षय इति न्यायात्प्रसिद्धाध्याहारः, ‘दरी वदति, मञ्चाः क्रोशन्ती’ ति प्रयोगदर्शनादाधाराधेययोरभेदोपचारश्च विरुद्धलक्षणादिभिः प्रयुज्यमानो न दोषायेति ॥

अथालंकारसंकरः ।

स यद्यपि व्यक्ताव्यक्तोभयात्मतया तिलतण्डुलकादिभेदैः प्रधानाङ्गभावसमकक्षताभ्यां पुरस्तादुक्तः तथापि तेषां गुणादिसंकरासाधारण-

  1. ‘पूर्णचन्द्रनिदर्शनादि—’ ख
  2. ‘दोषगुणाः परस्परं संकीर्यन्ते’ क ख
  3. ‘न’ ग नास्ति