1463हंसाली भयतरला सारा सरसा सराससारसरासा1464
1465अम्बरमरमारूढा सारासरसा सराससारसरासा ॥
  1. ‘हंसानामाली पङ्क्तिः । अम्बरमाकाशमरमत्यन्तमारूढा । किंभूता ।’ भयेन चञ्चला । पुनः किंभूता । सरसा रससहिता । पुनः किंभूता । सरासाः सशब्दा ये सारसास्तेषां रासः क्रीडा यस्यास्तथा । पुनः किंभूता । आरासे शब्दे यो रसस्तत्सहिता । पुनः किंभूता । सरसं सरः गमनं तेनास्यते क्षिप्यते सरासः । सरसि भवः सारसः । स चासौ स च । एवंविधो रासः क्रीडा यस्यास्तथेति’ घ पुस्तकस्यायुषि टिप्पणी
  2. ‘सरासुसा’ क
  3. ‘अम्बरमारूढा’ क, ‘अम्बरसाररूढा’ ख