710 त्वात्संप्रति साधारणः प्रकार उच्यते । स षोढा शब्दालंकारसंकरः, अर्थालंकारसंकरः, उभयालंकारसंकरः शब्दार्थालंकारसंकरः, 1461शब्दार्थोभयालंकारसंकरः, अर्थोभयालंकारसंकरश्च1462 । तेषु शब्दालंकारसंकरो यथा—

1463हंसाली भयतरला सारा सरसा सराससारसरासा1464
1465अम्बरमरमारूढा सारासरसा सराससारसरासा ॥

अत्र संस्कृतप्राकृतभाषासंश्लेषः, गतप्रत्यागतं चित्रं, 1466पदावृत्तियमकं, वर्णानुप्रासश्चेति चत्वारः 1467शब्दालंकाराः संकीर्यन्ते ॥

अर्थालंकारसंकरो यथा—

‘वासावस्थितताम्रचूडवयसामायामिभिः कूजितैर्दूरादप्यनुमीयमानवसतिर्ग्रामोऽयमन्तर्वणम् ।
यत्रोद्दीप्तकुकूल1468कूटविसरज्झम्पाघनं घूर्णते सन्ध्यान्तोल्लसदच्छभल्लपटलच्छायाजटालं तमः ॥ ४६१ ॥’

अत्र ताम्रचूडवयसां कूजितैरित्यनुमानम्, यत्र तमो घूर्णत इति ज्ञापकहेतुः, कुकूलकूटविसरज्झम्पाघनमिति सन्ध्यान्तोल्लसदच्छभल्लपट-

  1. ‘शब्दोभयालंकारसंकरः’ ख
  2. अत्र ‘च’ इत्यधिकं क ख
  3. ‘हंसानामाली पङ्क्तिः । अम्बरमाकाशमरमत्यन्तमारूढा । किंभूता ।’ भयेन चञ्चला । पुनः किंभूता । सरसा रससहिता । पुनः किंभूता । सरासाः सशब्दा ये सारसास्तेषां रासः क्रीडा यस्यास्तथा । पुनः किंभूता । आरासे शब्दे यो रसस्तत्सहिता । पुनः किंभूता । सरसं सरः गमनं तेनास्यते क्षिप्यते सरासः । सरसि भवः सारसः । स चासौ स च । एवंविधो रासः क्रीडा यस्यास्तथेति’ घ पुस्तकस्यायुषि टिप्पणी
  4. ‘सरासुसा’ क
  5. ‘अम्बरमारूढा’ क, ‘अम्बरसाररूढा’ ख
  6. ‘पादावृत्तियमकम्’ क ख
  7. ‘शब्दालंकाराः’ क ख
  8. ‘सृगालकूलविसरधूम्यान्धनं’ क, ‘कुकूलकूटबिसरद्धूम्याघनं’ ख