711 लच्छायाजटालमिति च कारकहेतुः, जायमानपदार्थस्वरूपाभिधानं जातिरित्यर्थालंकाराश्चत्वारो मिथः संकीर्यन्ते ॥

उभयालंकारसंकरो यथा—

‘ण हु णवरं दीवसिहासारिच्छं1469 चंपएहिं1470 पडिवण्णम् ।
कज्जलकज्जं रि 1471कअं 1472उअरि भमन्तेहिँ भमरेहिँ ॥ ४६२ ॥’
[न खलु केवलं दीपशिखासादृश्यं चम्पकैः प्रतिपन्नम् ।
कज्जलकार्यमपि कृतमुपरि भ्रमद्भिर्भ्रमरैः ॥]

अत्र चम्पकादीनां प्रदीपशिखाभिराकारकान्तिभ्यामुपमा,1473 विरहिणीहृदयदाहोद्या1474नद्योतनार्थक्रियाभ्यां साम्यं, 1475कज्जलपटलानामिव भ्रमरपटलानामुपरि मेलनान्मेलितं, चम्पकदीपकलिकयोरिव भ्रमरकज्जलपटलयोरौपम्यादिसंबन्धात्समुच्चय इत्युभयालंकाराश्चत्वारो1476 मिथः संकीर्यमाणा उपलभ्यन्ते ॥

शब्दार्थालंकारसंकरो यथा—

‘सर्वाशारुधि 1477दग्धवीरुधि 1478सदा सारङ्गबद्धक्रुधि क्षामक्ष्मारुहि मन्दमुन्मधुलिहि स्वच्छन्दकन्दद्रुहि1479
शुष्यत्स्रोतसि 1480तप्तभूमिरजसि ज्वालायमानाम्भसि 1481ग्रीष्मे मासि खरार्कतेजसि कथं पान्थ व्रजञ्जीवसि ॥ ४६३ ॥’

अत्रावन्तिका रीतिः, पदमुद्रा, विभक्तिमुद्रा, अनुप्रासश्चेति शब्दा-

  1. ‘सरिच्छं’ ख
  2. ‘चम्पएहि’ ख
  3. ‘कज्जम्मि’ क
  4. ‘आभमन्तेहि भमलेहि’ ख
  5. ‘आकारकान्तिमुपमां’ क
  6. ‘विरहिणीहृदयदाहोद्यमद्योतनार्थक्रियाभ्यां’ क, ‘विरहिणीहृदयदाहप्रद्योतनार्थक्रियाभ्यां’ ख
  7. ‘कज्जलपटलानामिवोपरि’ क, ’कज्जलपटलानामुपरि’ ख
  8. ‘चत्वारो मिथः संकीर्यन्ते’ क, ‘चत्वारोऽपि संकीर्यन्ते’ ख
  9. ‘दग्धवीरधि’ क
  10. ‘रुषा’ क
  11. ’स्वच्छन्दकुन्दद्रुहि’ क ख
  12. ‘तप्तभूरिरजसि ज्वालायमानार्णसि’ क ख
  13. ‘ज्येष्ठे’ ख