712 लंकाराः, जातिः, 1482कारकज्ञापकौ हेतू, चित्रहेतुश्चेत्यर्थालंकारा 1483मिथः संकीर्यन्ते ।

1484शब्दोभयालंकारसंकरो यथा—

‘स्तोकस्तोकममूभिरम्बरतले ताराभिरस्तं गतं गच्छत्यस्तगिरेः शिरस्तदनु च च्छायादरिद्रः शशी ।
प्रत्यासन्नतरोदयस्य तरणेर्बिम्बारुणिम्ना ततो मञ्जिष्ठारसलोहिनी दिगपि च प्राची समुन्मीलति ॥ ४६४ ॥’

अत्र समुन्मीलतीति विभक्तिमुद्रा, स्तोकस्तोकमस्तं गतं1485 गच्छतीत्यादिरनुप्रासश्च शब्दालंकाराः, हेतूपमा, समाधिः, अनुक्रमः, समुच्चयोक्तिश्चेत्युभयालंकारा मिथः संकीर्यन्ते ॥

अर्थोभयालंकारसंकरो यथा—

‘खं वस्ते कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलं 1486चर्चां पारयतीव दर्दुरकुलं कोलाहलैरुन्मदम् ।
गन्धं मुञ्चति सिक्तला1487जसुरभिं वर्षेण दग्धा स्थली दुर्लक्ष्योऽपि विभाव्यते कमलिनीहासेन भासां पतिः ॥ ४६५ ॥’

अत्र जातिः, अनुमानम्, कारकज्ञापकहेतू चेत्यर्थालंकाराः, रूपकोपमा, हेतूपमा, उत्प्रेक्षोपमेति 1488चोभयालंकारा मिथः संकीर्यन्ते ॥

एतेन गुणालंकारसंकरोऽपि व्याख्यातः । 1489यतो यद्यपि गुणवत्येव वाक्येऽलंका1490रयोगस्तथापि क्वचिद् गुणस्य प्राधान्यं क्वचिदलंकारस्येति प्रधानाङ्गभावेन गुणालंकारयोः संकरव्यवहारः प्रवर्तते । स षोढा—शब्द-

  1. ‘ज्ञापककारकहेतू’ क
  2. ‘मिथः शब्दे संकीर्यन्ते’ ख
  3. ‘एवमुभयालंकारसंकरो यथा’ क
  4. ‘अस्तं गच्छतीत्यादिः’ ख
  5. ‘चर्चा’ क ग
  6. ‘सिक्तजालसुरभि’ क, ‘सिक्तलाजसुरभिः’ ख
  7. ‘चेति उभयालंकाराः’ क ख
  8. ‘अतो’ क ख
  9. ‘संकरयोगः’ क ख