1484शब्दोभयालंकारसंकरो यथा—
‘स्तोकस्तोकममूभिरम्बरतले ताराभिरस्तं गतं
गच्छत्यस्तगिरेः शिरस्तदनु च च्छायादरिद्रः शशी ।
प्रत्यासन्नतरोदयस्य तरणेर्बिम्बारुणिम्ना ततो
मञ्जिष्ठारसलोहिनी दिगपि च प्राची समुन्मीलति ॥ ४६४ ॥’
अत्र समुन्मीलतीति विभक्तिमुद्रा, स्तोकस्तोकमस्तं गतं1485 गच्छतीत्यादिरनुप्रासश्च शब्दालंकाराः, हेतूपमा, समाधिः, अनुक्रमः, समुच्चयोक्तिश्चेत्युभयालंकारा मिथः संकीर्यन्ते ॥
अर्थोभयालंकारसंकरो यथा—
अत्र जातिः, अनुमानम्, कारकज्ञापकहेतू चेत्यर्थालंकाराः, रूपकोपमा, हेतूपमा, उत्प्रेक्षोपमेति 1488चोभयालंकारा मिथः संकीर्यन्ते ॥