एतेन गुणालंकारसंकरोऽपि व्याख्यातः । 1489यतो यद्यपि गुणवत्येव वाक्येऽलंका1490रयोगस्तथापि क्वचिद् गुणस्य प्राधान्यं क्वचिदलंकारस्येति प्रधानाङ्गभावेन गुणालंकारयोः संकरव्यवहारः प्रवर्तते । स षोढा—शब्द-713 गुणप्रधानः, अर्थगुणप्रधानः, 1491दोषगुणप्रधानः, शब्दालंकारप्रधानः, अर्थालंकारप्रधानः, उभयालंकारप्रधानश्च1492

  1. ‘अतो’ क ख
  2. ‘संकरयोगः’ क ख
  3. ‘दोषालंकारप्रधानः’ क
  4. ‘इति’ इत्यधिकं क ख