‘प्राप्तश्रीरेष कस्मात्पुनरपि 1493मयि तं मन्थखेदं विदध्यान्निद्रामप्यस्य पूर्वामनलसमनसो नैव1494 संभावयामि ।
सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयातस्त्वय्यायाते वितर्कानिति दधत1495 इवाभाति कम्पः पयोधेः ४६६’
  1. ‘मथितुं मन्दरं वा’ ख । पद्यमेतद् ध्वन्यालोके (२।३०) ऽप्युदाहृतम्
  2. ‘नाप्यहं तर्कयामि’ क
  3. ‘विदधति’ क