713 गुणप्रधानः, अर्थगुणप्रधानः, 1491दोषगुणप्रधानः, शब्दालंकारप्रधानः, अर्थालंकारप्रधानः, उभयालंकारप्रधानश्च1492

तेषु शब्दगुणप्रधानो यथा—

‘प्राप्तश्रीरेष कस्मात्पुनरपि 1493मयि तं मन्थखेदं विदध्यान्निद्रामप्यस्य पूर्वामनलसमनसो नैव1494 संभावयामि ।
सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयातस्त्वय्यायाते वितर्कानिति दधत1495 इवाभाति कम्पः पयोधेः ४६६’

अत्र हेतूत्प्रेक्षाभिधाने त्वयीत्यादौ पदे विष्णोः स्वरूपाध्यासेन तद्भावापत्तौ समाधेरिह प्राधान्यं1496 प्रतीयते । ननु चायमर्थस्य प्राकट्यात्प्रसादोऽर्थगुणः कस्मान्न भवति । अस्मिन्नपि तव्द्यपदेशेन शब्दशक्तेराधिक्यात् । ननु च त्वयि इति, एष इति, अस्य इति, 1497युष्मदेतदिदमां न कश्चन1498 विष्णुवाची 1499स कथं वर्णनीये न्यस्तस्तं तमर्थमभिदधीत । उच्यते, सर्वनामत्वेनैषां सर्ववाचित्वात् । सर्वनामानि हि 1500सर्वाभिधायीन्यपि 1501प्रकरणादिगम्यं विशेषमेव ब्रुवते स च इह प्राप्तश्रीरित्येवमादिमिरभिव्यक्त1502मेवावगम्यत इति ॥

अर्थगुणप्रधानो यथा—

‘लक्ष्मीवशीकरणचूर्णसहोदराणि त्वत्पादपङ्कजरजांसि चिरं जयन्ति ।
  1. ‘दोषालंकारप्रधानः’ क
  2. ‘इति’ इत्यधिकं क ख
  3. ‘मथितुं मन्दरं वा’ ख । पद्यमेतद् ध्वन्यालोके (२।३०) ऽप्युदाहृतम्
  4. ‘नाप्यहं तर्कयामि’ क
  5. ‘विदधति’ क
  6. ‘समाधेः प्राधान्यमिह’ क ख
  7. ‘युष्मदेतदिदमदः’ क, ‘युष्मदस्मदिदमां’ घ
  8. ‘कश्चिन्न विष्णुवाची’ क
  9. ‘स कथं वर्णनीये वस्तुनि तमर्थमभिदध्यात्’ क ख
  10. ‘सर्वनामाभिधायीन्यपि’ क ख
  11. ‘प्रकरणादिगम्यं विशेषमर्थं च ब्रुवते’ क, ‘प्रकरणादिगम्यविशेषमिव ब्रुवते’ ख
  12. ‘अभिव्यक्तमेवाभिगम्यते इति’ क, ‘अभिव्यक्त एवाभिगम्यते इति’ ख