715
आश्लिष्टं श्लथभावां तु पुराणच्छायमाश्रिताम् ।
मधुरां 1509सुकुमारां च पाञ्चालीं कवयो विदुः ॥
माधुर्यमपि वाञ्छन्त; प्रसादं च सुभेधसः ।
समासवन्ति भूयांसि न पदानि प्रयुञ्जते ॥
लाटीयावन्त्ययो रीत्योर्मागध्यां च क्वचित्क्वचित् ।
केचिदोजोऽभिधित्सन्तः समस्यन्ति बहून्यपि ॥
प्रतीतशब्दमोजस्वि 1510सुश्लिष्टपदसंधि च ।
प्रसादि स्वभिधानं च यमकं कृतिना मतम्1511 ॥’ इति ।

मा भूदलंकारतुल्यकक्षतया अर्थस्य प्राधान्यं1512 शब्दगुणस्य तु श्लाघ्यविशेषगुणयोग उदात्तमित्यादेः किमिति प्राधान्यं न भवति दोषगुणानामतीवोल्लेखवत्त्वेन1513 प्राधान्यात्1514

1515सा वामनप्रसिद्धिर्लङ्घितनभसो बलिद्विषोऽद्यापि ।
मत्सरिणः खलु लोका मर्माण्येवानुबध्नन्ति ॥

दोषस्य यो गुणीभावः स ततोऽप्यधिकं प्रकाशत इति ॥

शब्दालंकारप्राधानो यथा—

‘यच्चन्द्रकोटिकरकोरकभारभाजि1516 बभ्राम बभ्रुणि जटापटले हरस्य ।
तद्वः पुनातु हिमशैलशिलानिकुञ्जझा- 1517त्कारडम्बरविरावि सुरापगाम्भः ॥ ४६९ ॥’
  1. ‘सुकुमारीं च’ ख
  2. ‘सुश्लिष्टपदसंघिता’ क, ‘सुश्लिष्टपदसंधिमत्त’ ख
  3. चायामकं कृतिनां मतम्’ क ख
  4. ‘अर्थप्रधानोदारगुणस्य’ ख
  5. ‘मतीवोल्लेखविधित्वेन’ क ख
  6. ‘प्र(प्रा)धान्यात्’ क
  7. अत्र ‘यथा—’ इत्यधिकं क
  8. ‘कोरकभारभाजि’ क, ‘कोरकहारभाजि’ ख
  9. ‘टाङ्कारडम्बरविरावि’ क, ‘प्राकारडम्बरविरावि’ ख