716

अत्रार्थप्राकट्यं प्रसादः विभवोत्कर्ष उदात्तता मृदुप्रस्फुटोन्मिश्रवर्णानामवैषम्यं समता, बन्धगाढता, और्जित्यमित्यादिभ्यो गुणेभ्यः प्राधान्येन शब्दालंकारानुप्रासः प्रतीयते ॥

अर्थालंकारप्रधानो यथा—

‘आश्लेषिणः 1518पृथुतरक्लमपीतशीतमायाविनीर्घनमुदो रजनीर्युवानः ।
1519ऊर्ध्वोर्मुहुर्वलनबन्धनसन्धिलोलपादान्तसंवलिततूलपटाः1520 स्वपन्ति ॥ ४७० ॥’

अत्र बन्धविकटत्वमुदारता, श्लाध्यविशेषणयोग उदात्तत्वम्1521, विभवोत्कर्ष औदार्यम्, दीप्तरसत्वम्, कान्तिरित्यादिभ्यो गुणेभ्यः प्राधान्येन जातिरर्थालंकारः प्रतीयते ।

उभयालंकारप्रधानो यथा—

1522अभ्युद्धृता वसुमती दलितं रिपूरः क्रोडीकृता बलवता बलिराजलक्ष्मीः ।
अत्रैकजन्मनि कृतं यदनेन यूना जन्मत्रये तदकरोत्पुरुषः पुराणः ॥ ४७१ ॥’

अत्रोक्तिपरिपाटीः1523 प्रौढिः, बन्धविकटत्वमुदारता, आशयोत्कर्ष उदात्तत्वम्, अर्थप्राकट्यं, प्रसादः—इत्यादिभ्यो गुणेभ्यः श्लेषोपसर्जना विशेषोक्तिरुभयालंकारः प्राधान्येन प्रतीयते ॥ रससंकरोऽपि चालंकारसंकरवदेव । भावरसाभासप्रशमानां तिलतण्डुलादिप्रकारेण संकरः 1524षट्प्रकारको भवति । तत्र भावानां तिलतण्डुलप्रकारो यथा—

  1. ‘पृथुरतक्लम’ क ख
  2. ‘कण्ठैः’ ख
  3. ‘लोलपटाः’ क ख
  4. ‘उदात्तता’ क ख
  5. ‘अभ्युद्गता’ ख
  6. ‘उक्तिपरिपाकः’ क
  7. ‘षट्प्रकारो’ क ख