571
तद्रूपेणैव सात्त्विकोत्पत्तौ जन्म यथा—
अत्र स्वेदरोमोद्भेदयोः375 सात्त्विकयोरुत्पादाद्रसस्य रतिरूपेणाविर्भावोऽवगम्यते ।
जन्मैव 376संचार्युत्पत्तौ यथा—
अत्र ह्रीः संचारिभावो जायमानो रसस्य जन्म ज्ञापयति ।
379तदेवानुभावोत्पत्तौ यथा—
‘ततः सुनन्दावचनावसाने लज्जां 380मृदूकृत्य नरेन्द्रकन्या ।
दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव ॥ ४ ॥’
अत्र दृष्टिलक्षणः शरीरारम्भोऽनुभावो381 भवन् रसाविर्भावं लक्षयति । अनुभावादेरनेकस्यैकस्य वा पुनरुत्पत्तिरनुबन्धः । सोऽनेकस्य यथा—
‘विवृण्वती शैलसुतापि भावमङ्गैः 382क्वचिद्बालकदम्बकल्पैः ।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥ ५ ॥’
- ‘आसीद्वरः कण्टकितप्रकोष्ठः’ इति मल्लिनाथोट्टङ्कितः पाठः↩
- ‘वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य’ मुद्रितपाठः↩
- ‘स्वेदरोमोद्गमयोः’ ख↩
- ‘जन्मैव सत्त्वाद्युत्पत्तौ यथा’ ख↩
- अत्र च 'तयोरुपान्तप्रतिसारितानि’, ‘तयोरपाङ्गप्रतिचालिचानि’, ‘तयोरपाङ्गप्रतिवारितानि’ इत्येवंविधा अनेके पाठाः↩
- अत्रापि ‘क्रियासमापत्तिनिवर्तितानि’, ‘क्रियासमापत्तिविवर्तितानि’, ‘क्रियासमापत्तिषु कातराणि’, ‘तयोः समापत्तिषु कातराणि किंचिव्द्यवस्थापितसंहृतानि’ इत्येवंविधा अनेके पाठाः↩
- ‘तदेवानुभवोत्पत्तौ’ क, ‘तदेवानुभयोत्पत्तौ’ ख↩
- ‘तनूकृत्य’ मुद्रितपाठः↩
- ‘शरीरारम्भेऽनुभावो भवन्’ क ख, ‘शरीरानुभावो भवन्’ ग↩
- ‘स्फुरद्वालकदम्बकल्पैः’ ख मुद्रितकुमारे↩