717
‘न्यक्कारो हृदि वज्रकील इव मे तीव्रः परिस्पन्दते घीरान्धे तमसीव मज्जति मनः संमीलितं लज्जया ।
1525शोकस्तार्क्ष्यविपत्तितो 1526दहति मां नास्त्येव यस्मिन्क्रिया 1527मर्माण्येव पुनश्छिनत्ति करुणा सीतां वराकीं प्रति ॥ ४७२ ॥’

अत्रामर्षलज्जाशोकानुकम्पाः समकक्षतया मिथस्तिलतण्डुलवत्संकीर्यमाणा रामस्य विरहिणो वागारम्भानुभा1528वोक्तिपरतया प्रतीयन्ते ॥

क्षीरनीरप्रकारो यथा—

‘मानोन्नतेत्यसहनेत्यतिपण्डितेति मय्येव धिक्कृतिरनेकमुखी सखीनाम् ।
दाक्षिण्यमात्रमसृणेन विचेष्टितेन धूर्तस्य तस्य हि गुणा नु परं जयन्ति ॥ ४७३ ॥’

अत्र सखीषु रोषः प्रियगुणेषु चासूया, क्षीरनीरवन्मिथः 1529संकीर्यमाणौ मानिनीवागारम्भपरतया 1530प्रतीयेते ॥

छायादर्शप्रकारो यथा

‘आः सीते पतिगर्वविभ्रमभरभ्रा1531न्तभ्रमद्बान्धवप्रध्वंसस्मितकान्तिमत्तव तदा जातं यदेतन्मुखम् ।
संप्रत्येव हठात्तदेष1532 कुरुते 1533केशोच्चयाकर्षणत्रासोत्तानितलोललोचनपतद्बाष्पप्लुतं रावणः ॥ ४७४ ॥’

अत्र क्रोधाभासे छायादर्शन्यायेन रत्याभासः 1534संकीर्यमाण उपलभ्यते ॥

  1. ‘तातविपत्तिजो’ ख, ‘तार्क्ष्यसजातीयत्वात् तार्क्ष्योऽत्र जटायुरभिधीयते’ घ पुस्तकस्यायुषि टिप्पणी
  2. ‘दहति यन्नास्त्येव’ क
  3. ‘मर्माणीव’ ख
  4. ‘अनुरागोक्तिपरतया’ क ख
  5. ‘संकीर्यमाणौ’ क, ‘संकीर्यमाणे’ ख
  6. ‘प्रतीयेते’ क ख
  7. ‘प्रान्त’ क
  8. ‘तदेव’ क ख
  9. ‘केशोच्चयोत्कर्षण’ क ख
  10. ‘संकीर्यते’ क ख