717
अत्रामर्षलज्जाशोकानुकम्पाः समकक्षतया मिथस्तिलतण्डुलवत्संकीर्यमाणा रामस्य विरहिणो वागारम्भानुभा1528वोक्तिपरतया प्रतीयन्ते ॥
क्षीरनीरप्रकारो यथा—
‘मानोन्नतेत्यसहनेत्यतिपण्डितेति
मय्येव धिक्कृतिरनेकमुखी सखीनाम् ।
दाक्षिण्यमात्रमसृणेन विचेष्टितेन
धूर्तस्य तस्य हि गुणा नु परं जयन्ति ॥ ४७३ ॥’
अत्र सखीषु रोषः प्रियगुणेषु चासूया, क्षीरनीरवन्मिथः 1529संकीर्यमाणौ मानिनीवागारम्भपरतया 1530प्रतीयेते ॥
छायादर्शप्रकारो यथा
अत्र क्रोधाभासे छायादर्शन्यायेन रत्याभासः 1534संकीर्यमाण उपलभ्यते ॥