718

1535नरसिंहप्रकारो यथा—

‘किं द्वारि दैवहतिके सहकारकेण संवर्धितेन विषपादप एष पापः ।
अस्मिन्मनागपि 1536विकाशविकारभाजि भीमा भवन्ति मदनज्वरसंनिपाताः ॥ ४७५ ॥’

अत्र नरसिंहजाताविव सिंहनरशरीरभागौ1537 सहकारवर्णनावागारम्भानुसारेण सखीविषयानुकम्पा सहकारविषया च कुत्सा मिथः संकीर्येते । तथा हि 1538दैवहतिके इतिशब्देन लब्धायां नियत्युपाधौ सर्वथैवानुकम्प्यमानतायां सहकारसंवर्धननिबन्धनत्वमेवास्याः कला द्योत्यते । एवं नाम त्वं दैवोपहतासि यत्सहकारछद्मानं विषपादपं1539 द्वारि संवर्धयसीति1540 । विषपादपशब्देन च1541 लब्धायां सहकारस्य सर्वथैव कुत्सायां 1542विकासकाले कामिनीनामसह्यस्मरज्वरसंनिपातहेतुकत्वमेवास्याः कप्रत्ययेन1543 प्रत्याय्यते ॥ तदुक्तम्—

कुत्सितत्वेन कुत्सावान्सम्यग्वापि हि कुत्सितः ।
स्वशब्दाभिहिते केन विशिष्टोऽर्थः प्रतीयते ॥
न च सांप्रतिकी कुत्सा शब्दभेदे प्रतीयते ।
1544पूज्यते कुत्सितत्वेऽपि प्रशस्तत्वेऽपि कुत्स्यते1545
  1. ‘नरसिंहवद् यथा—’ क
  2. ‘विकासविकारभाजि’ क
  3. सिंहनरशरीरवागारम्भानुसारेण’ क ख
  4. ‘दैवहतिकेशब्देन’ क ख
  5. ‘सहकारविषपादपं’ क ख
  6. ‘इति’ क ख नास्ति
  7. ‘च’ क ख
  8. ‘विकासकाल’ क घ
  9. ‘कन्प्रत्ययेन’ क
  10. ‘युज्यते’ ख
  11. ‘इति’ इत्यधिकं क