719

तद् यथा—

‘एक इह जीवलोके जीवतिरूपं नृरूपपशुरूपः1546
यः 1547प्रेमपाशपाशे 1548मृग इव न मृगीदृशां पतित ॥ ४७६ ॥’

पांसूदकप्रकारो1549 यथा—

‘मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति ।
अन्यापि किं न सखि भाजनमीदृशानां वैरी न चेद्भवति वेपथुरन्तरायः ॥ ४७७ ॥’

अत्र स्वसौभाग्यवर्णना मृत्पिण्डे 1550पांसूदकयोरिवाविभागमापाद्यमानयोरसूयागर्वयोः संकर उपलभ्यते1551

चित्रवर्णप्रकारो यथा—

‘विरोधो विश्रान्तः प्रसरति रसो निर्वृतिघन- स्तदौद्धत्य क्वापि व्रजति विनयः प्रह्वयति माम् ।
झटित्यस्मिन्दृष्टे किमपि परवानस्मि यदि वा महार्घस्तीर्थानामिव1552 हि महतां कोऽप्यतिशयः ॥ ४७८ ॥’

अत्र वीरौद्धत्यस्वातन्त्र्यव्यरसानामानन्दप्रशमपारवश्यरसैस्तिरस्क्रियमाणानां 1553पट इव नीलादिभिः 1554सीतादीनां प्रशमा रामदर्शनप्रभावोद्भवे-

  1. ‘नृरूपपशुरूपः’ इति क पाठस्त्रुटितः । ‘न रूपमभ्युदये’ इति ख पाठः
  2. ‘प्रेममात्रपाशे’ क, ‘यः प्रेममाशयाशे’ ख
  3. ‘मृगवन्न मृगीदृशां’ ख
  4. ‘पांशूदकप्रकारो यथा’ ग
  5. ‘पांशूदकयोरिव’ ग
  6. ‘उपपद्यते’ क ख
  7. ‘किमिह महतां’ क
  8. ‘पटवर्णनीलादिभिः’ क, ‘पटनीलादिभिः’ ख
  9. ‘सितादीनां’ क