719
तद् यथा—
पांसूदकप्रकारो1549 यथा—
‘मा गर्वमुद्वह कपोलतले चकास्ति
कान्तस्वहस्तलिखिता मम मञ्जरीति ।
अन्यापि किं न सखि भाजनमीदृशानां
वैरी न चेद्भवति वेपथुरन्तरायः ॥ ४७७ ॥’
चित्रवर्णप्रकारो यथा—
‘विरोधो विश्रान्तः प्रसरति रसो निर्वृतिघन-
स्तदौद्धत्य क्वापि व्रजति विनयः प्रह्वयति माम् ।
झटित्यस्मिन्दृष्टे किमपि परवानस्मि यदि वा
महार्घस्तीर्थानामिव1552 हि महतां कोऽप्यतिशयः ॥ ४७८ ॥’