ननु च 1557दोषहानमिव गुणोपादानमपि नियमनिर्वर्त्यम्1558 । अलंकारयोग इव रसावियोगोऽप्यवश्यं विधेयः । कदाचिदलंकारयोगोऽपि त्यज्यते 1559न तु रसावियोगो गुणयोगश्च व्यभिचरितसंबन्धाविति । अत्रोच्यते । यत्र चित्र1560वर्णवन्नरसिंहवत्पांसूदकव1561च्चावयवावयविन्यायेन जातिव्यक्तिन्यायेन 1562चापृथक्प्रयत्ननिर्वर्त्यानां1563 गुणरसानां वाक्ये संनिवेशस्तत्र संकरव्यवहारो न प्रवर्तते ॥

  1. ‘ननु दोषहानिरिव’ ख , ‘दोषहानि नमिव’ च घ
  2. ‘नियमनिवर्त्यम्’ क
  3. ‘ननु रसादिव्यभिचरितसंबन्धाविति’ क ग पुस्तके च ‘नतु’ इत्यस्य स्थाने ‘ननु’ इति वर्तते
  4. ‘वर्णवत्’ ग
  5. ‘पाशूदकवच्च’ ग
  6. ‘वापृथक्’ क
  7. ‘प्रयत्नानिर्बर्त्यानां’ क