720 लवस्य विस्मयातिशयप्रशमजन्मनि 1555वागारम्भानुभावोपमापदे चित्रवर्णवत्संकीर्यमाणाः समुपलभ्यन्ते ॥

अथ 1556रसगुणसंकरः ।

ननु च 1557दोषहानमिव गुणोपादानमपि नियमनिर्वर्त्यम्1558 । अलंकारयोग इव रसावियोगोऽप्यवश्यं विधेयः । कदाचिदलंकारयोगोऽपि त्यज्यते 1559न तु रसावियोगो गुणयोगश्च व्यभिचरितसंबन्धाविति । अत्रोच्यते । यत्र चित्र1560वर्णवन्नरसिंहवत्पांसूदकव1561च्चावयवावयविन्यायेन जातिव्यक्तिन्यायेन 1562चापृथक्प्रयत्ननिर्वर्त्यानां1563 गुणरसानां वाक्ये संनिवेशस्तत्र संकरव्यवहारो न प्रवर्तते ॥

तद् यथा—

मधुरं रसवद्वाचि वस्तुन्यपि रसस्थितिः ।
येन माद्यन्ति धीमन्तो मधुनेव मधुव्रताः ॥
कामं सर्वोऽप्यलंकारो रसमर्थे निषिञ्चति ।
तथाप्यग्राम्यतैवैनं भारं वहति भूयसा ॥
शृङ्गार एव 1564मधुरः परप्रह्लादनो रसः1565
तन्मयं काव्यमाश्रित्य माधुर्यं प्रतितिष्ठति ॥
शृङ्गारे विप्रलम्भाख्ये करुणे च प्रकर्षवत् ।
माधुर्यमार्द्रतां याति यतस्तत्राधिकं मनः ॥
  1. ‘वागारम्भानुभावोपमाद्भवेदेतच्चित्रवर्णवत्’ क, ‘वागारम्भानुभावोपमोद्भवेचित्रवर्णवत्’ ख
  2. ‘अथ कोऽयं गुणसंकरः’ क
  3. ‘ननु दोषहानिरिव’ ख , ‘दोषहानि नमिव’ च घ
  4. ‘नियमनिवर्त्यम्’ क
  5. ‘ननु रसादिव्यभिचरितसंबन्धाविति’ क ग पुस्तके च ‘नतु’ इत्यस्य स्थाने ‘ननु’ इति वर्तते
  6. ‘वर्णवत्’ ग
  7. ‘पाशूदकवच्च’ ग
  8. ‘वापृथक्’ क
  9. ‘प्रयत्नानिर्बर्त्यानां’ क
  10. ‘सर्वेषु’ क
  11. ‘परः प्रह्लादनो रसः’ इति ध्वन्यालोके (२।८)