720 लवस्य विस्मयातिशयप्रशमजन्मनि 1555वागारम्भानुभावोपमापदे चित्रवर्णवत्संकीर्यमाणाः समुपलभ्यन्ते ॥
अथ 1556रसगुणसंकरः ।
ननु च 1557दोषहानमिव गुणोपादानमपि नियमनिर्वर्त्यम्1558 । अलंकारयोग इव रसावियोगोऽप्यवश्यं विधेयः । कदाचिदलंकारयोगोऽपि त्यज्यते 1559न तु रसावियोगो गुणयोगश्च व्यभिचरितसंबन्धाविति । अत्रोच्यते । यत्र चित्र1560वर्णवन्नरसिंहवत्पांसूदकव1561च्चावयवावयविन्यायेन जातिव्यक्तिन्यायेन 1562चापृथक्प्रयत्ननिर्वर्त्यानां1563 गुणरसानां वाक्ये संनिवेशस्तत्र संकरव्यवहारो न प्रवर्तते ॥
तद् यथा—
- ‘वागारम्भानुभावोपमाद्भवेदेतच्चित्रवर्णवत्’ क, ‘वागारम्भानुभावोपमोद्भवेचित्रवर्णवत्’ ख↩
- ‘अथ कोऽयं गुणसंकरः’ क↩
- ‘ननु दोषहानिरिव’ ख , ‘दोषहानि नमिव’ च घ↩
- ‘नियमनिवर्त्यम्’ क↩
- ‘ननु रसादिव्यभिचरितसंबन्धाविति’ क ग पुस्तके च ‘नतु’ इत्यस्य स्थाने ‘ननु’ इति वर्तते↩
- ‘वर्णवत्’ ग↩
- ‘पाशूदकवच्च’ ग ↩
- ‘वापृथक्’ क ↩
- ‘प्रयत्नानिर्बर्त्यानां’ क ↩
- ‘सर्वेषु’ क↩
- ‘परः प्रह्लादनो रसः’ इति ध्वन्यालोके (२।८)↩