721
रौद्रादयो रसा दीप्त्या लक्ष्यन्ते 1566काव्यवर्तिनः ।
1567तव्द्यक्तिहेतू शब्दार्थावोजोधिष्ठाय तिष्ठति ॥
1568समर्थकत्वं वाक्यस्य यत्तु सर्वरसान्प्रति ।
स प्रसादो गुणो ज्ञेयः सर्वसाधारणक्रियः ॥’

सेयं गुणानां रसारम्भकत्वे संकराप्रसिद्धिः । एवं रसानां गुणारम्भकत्वेऽपि । तद्यथा—रूढाहंकारतौर्जित्यम्, 1569भावतो वाक्प्रवृत्तिर्भाविकत्वम्, 1570क्रोधादावप्यतीव्रता, माधुर्यम्, आशयोत्कर्षः, उदात्तत्वम्, अर्थस्याभीष्टतमता, 1571प्रेयः, दीप्तरसत्वं, कान्तिरिति । यत्र तु तिलतन्दुलवत्1572 क्षीरनीरवच्छायादर्शवत् तुल्यकक्षतयैव गुणरसानां 1573वाक्येऽपृथक्प्रयत्ननिर्वर्त्यानां विनिवेशस्तत्र संकरव्यवहारः प्रवर्तत एव । स षोढा—गुणप्रधानः—रसप्रधानः, उभयप्रधानः, उभयाप्रधानः, गुणाधिकः, रसाधिक इति ॥

तेषु गुणप्रधानो यथा—

‘अत्रान्तरे ललितहारलतानितम्बसंवाहनस्खलितवेगतरङ्गिताङ्गी ।
देवी व्यपास्य शयनं धृतमानतन्तुरन्तःपुरं गतवती सह सौविदल्लैः ॥ ४७९ ॥’
  1. ‘कार्यवर्तिनः’ क
  2. ‘तद्व्यक्तिहेतू शब्दाथांवोजोऽधिष्ठाय तिष्ठति’ क, ध्वन्यालोके तु ‘तद्व्यक्तिहेतू शब्दार्थावाश्रित्योजो व्यवस्थितम् ।’ इति पाठः
  3. ‘समर्पकत्वं वाप्यस्य’ क, ध्वन्यालोके तु 'समर्पकत्वं काव्यस्य’ इति
  4. ‘भावतो वाक्प्रवृत्तिः’ क, ‘भावयतो वाक्यवृत्तिः’ ख
  5. ‘क्रोधादावप्यस्य तीव्रत्वं’ क, ‘क्रोधादावपि तीव्रता’ ख
  6. ‘अर्थस्याभीष्टतन्मयता’ ख
  7. ‘तिलतण्डुलवत्’ क ख
  8. ‘वाक्ये पृथक् प्रयत्न’ क ख