722

अत्रार्थप्राकट्यौदार्ययोरर्थशब्दगुणयोः 1574प्राधान्यं 1575न रतिक्रोधयोरिति गुणप्रधानः ॥

रसप्रधानो यथा—

‘अस्मिन्नगृह्यत पिनाकभृता सलील- मारब्धवेपथुरधीरविलोचनायाः ।
विन्यस्तमङ्गलमहौषधिरीश्वरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः ॥ ४८० ॥’

अत्र श्लाध्वविशेषणयोग उदात्तत्वम्, बन्धविकटत्वमुदारता, अर्थप्राकट्यं प्रसादः, दीप्तरसत्वं कान्तिरिति गुणाः साध्वसविलासानुरागसंगमरसैरतिशय्यन्त इति रसप्रधानः ॥

उभयप्रधानो यथा—

‘आपातमात्ररसिके सरसीरुहस्य किं बीजमर्पयितुमिच्छसि वापिकायाम् ।
कालः कलिर्जगदिदं न कृतज्ञमज्ञे स्थित्वा हरिष्यति तवैव मुखस्य शोभाम् ॥ ४८१ ॥’

अत्र भणितिविशेष उक्तिः संविधाने 1576सुसूत्रता श्लेष इति शब्दगुणयोर्लावण्यविलासवर्णनीयरसयोश्च तुल्यकक्षतया निर्देश1577 इत्युभयप्रधानः ॥

उभयाप्रधानो यथा—

‘अभिनववधूरोषस्वादुः करीषतनूनपा- दसरलजनाश्लेषक्रूरस्तुषारसमीरणः ।
गलितविभवस्याज्ञेवाद्य1578 द्युतिर्मसृणा रवे- र्विरहिवनितावक्त्रक्लैब्यं बिभर्ति निशाकरः ॥ ४८२ ॥’
  1. ‘प्राधान्यं न रतिक्रोधयोः’ ग नास्ति
  2. ‘न भवति क्रोधयोः’ ख
  3. ‘स्वसूत्रता’ ख
  4. ‘निर्दिशत्युभयप्रधानः’ क
  5. ‘आहेवाथ’ ग