722
रसप्रधानो यथा—
‘अस्मिन्नगृह्यत पिनाकभृता सलील-
मारब्धवेपथुरधीरविलोचनायाः ।
विन्यस्तमङ्गलमहौषधिरीश्वरायाः
स्रस्तोरगप्रतिसरेण करेण पाणिः ॥ ४८० ॥’
अत्र श्लाध्वविशेषणयोग उदात्तत्वम्, बन्धविकटत्वमुदारता, अर्थप्राकट्यं प्रसादः, दीप्तरसत्वं कान्तिरिति गुणाः साध्वसविलासानुरागसंगमरसैरतिशय्यन्त इति रसप्रधानः ॥
उभयप्रधानो यथा—
‘आपातमात्ररसिके सरसीरुहस्य
किं बीजमर्पयितुमिच्छसि वापिकायाम् ।
कालः कलिर्जगदिदं न कृतज्ञमज्ञे
स्थित्वा हरिष्यति तवैव मुखस्य शोभाम् ॥ ४८१ ॥’
अत्र भणितिविशेष उक्तिः संविधाने 1576सुसूत्रता श्लेष इति शब्दगुणयोर्लावण्यविलासवर्णनीयरसयोश्च तुल्यकक्षतया निर्देश1577 इत्युभयप्रधानः ॥
उभयाप्रधानो यथा—
‘अभिनववधूरोषस्वादुः करीषतनूनपा-
दसरलजनाश्लेषक्रूरस्तुषारसमीरणः ।
गलितविभवस्याज्ञेवाद्य1578 द्युतिर्मसृणा रवे-
र्विरहिवनितावक्त्रक्लैब्यं बिभर्ति निशाकरः ॥ ४८२ ॥’