723

अत्र स्वादुक्रूरमसृणक्लैब्य1579मित्यन्यधर्माणामन्यत्रारोपणं समाधिः, अभिनववधूरोषादीनां चतुर्णामप्यर्थानां स्वाद्वादीनां च लक्षणादिलक्षितानां प्राकट्यं प्रसादः, अभिनववधूरोषस्वादुः करीषतनूनपात् इति विशेषणविशेष्याणामुपक्रमेण निर्वहणं1580 रीतिः, पादचतुष्टये चतुर्णामर्थानां विभक्त्यसमत्वेन निवेशः संभितत्वमिति चत्वारो गुणाः, चत्वारश्च रत्यमर्षविषादजुगुप्सात्मानो रसाः कालावस्थानिवेदनपरत्वेन प्रतीयन्त इत्युभयाप्रधानः ॥

गुणाधिको यथा—

‘अजननिरस्तु बिभूतेरपूरणिर्भवतु सर्वकामानाम् ।
मा याचिषि मा सेविषि मा सहिषि पराभवं धनिनः ॥ ४८३ ॥’

अत्र सुप्तिङ्व्युत्पत्तिः1581 सौशब्द्यम्, वाक्यानां परिपूर्णत्वमर्थव्यक्तिः, अर्थस्य प्राकट्यं प्रसादः, विभूतेरनुत्पत्तौ कामा न पूर्यन्ते, अपरिपूर्णकामो याचते, याचमानस्तदनाप्नुवन् धनिनः सेवते, सेवमानस्तु तैः परिभूयत इत्युत्पत्त्यादिक्रियाक्रमो रीतिरिति गुणाश्चत्वारः, रसस्तु निर्वेद एवैक इति गुणाधिकः ॥

स्साधिको यथा—

‘कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम् ।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥ ४८४ ॥’

अत्र कमलमनम्भंसि कमले कुवलयमेतानि कनकलतिकायाम् इत्यन्यधर्माणामन्यत्रारोपणं समाधिः, सा च सुकुमारसुभगेत्युत्पातपरम्परा केयमित्यश्लीलामङ्गलार्थौ दोषगुणावपि, श्लाध्यविशेषगुणयोग उदात्त-

  1. ‘वक्त्रक्लैव्य’ क
  2. ‘निबर्हणम्’ ख
  3. ‘व्युत्पत्तिसौशब्द्यम्’ ख