724 त्वम्, विकटबन्धत्वमुदारता, उपक्रमाभेदो रीतिः, 1582अर्थप्राकट्यं प्रसादः, अनिष्ठुरता सौकुमार्यम्, 1583अभीष्टतमता प्रेयः, दीप्तरसत्वं कान्तिरिति गुणा दश, रसास्तु रत्युत्कर्षहर्षधृत्युत्कण्ठावेगविस्मय1584मतिवितर्कचिन्ताचपलताहासोत्साहस्तम्भगद्गदोन्माद1585व्रीडावहित्थभयशङ्काः विंशतिर्वागारम्भानुभावे श्रृङ्गारिणः प्रियाचाटुकारस्य कस्यचित्प्रतीयन्त इति रसाधिकः ॥

रसालंकारसंकरोऽप्येतेन व्याख्यातः ।

रसवन्ति हि वस्तूनि सालंकाराणि कानिचित् ।
एकेनैव प्रयत्नेन 1586निर्वर्त्यन्ते महाकवेः ॥ १७३ ॥
रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत् ।
अपृथग्यत्ननिर्वर्त्यः 1587सोऽलंकारः प्रकृष्यते ॥ १७४ ॥
रसाभावादिविषयविवक्षाविरहे सति ।
अलंकारनिबन्धो यः स कविभ्यो न रोचते ॥ १७५ ॥

तत्र रसालंकारसंकरो द्विधा—रसप्रधानोऽलंकारप्रधानश्च । 1588तयोर्योनुभवित्रैव वर्ण्यते स रसप्रधानः । तत्र ह्यलंकारवतो वाक्यस्य वागारम्भानुभावत्वं भवति ॥

तत्र रतावुपमायाः संकरो यथा—

‘तीए दंसणसुहए 1589पणअक्खलणजणिओ मुहम्मि मणहरे ।
रोसो वि हरइ हिअअं 1590मअपंको व्व मिअलंछणम्मि1591 णिसण्णो ४८५’
[तस्या दर्शनसुभगे प्रणयस्खलनजनितो मुखे मनोहरे ।
रोषोऽपि हरति हृदयं मदपङ्क इव मृगलाञ्छने निषण्णः ॥]
  1. ‘अर्थस्य प्राकट्यं’ क
  2. ‘आभीष्टतमता’ क
  3. ‘मति’ ख नास्ति
  4. ‘व्रीडावहित्थाभयशङ्काः’ क
  5. ‘निवर्त्यन्ते’ क ख ग
  6. ‘सोऽलंकारो ध्वनौ मतः’ इति ध्वन्यालोके
  7. ‘तयोर्ये’ क
  8. ‘पणअएवलण’ क, ‘पणअकवलण’ ख
  9. ‘मअअंपंकोव’ क, ‘मअअंकोव्व’ ख
  10. ‘मअतद्बलण्णि निसण्णे’ क