725

अत्रोपमातिरस्कारेण रसवतो हरेर्वचसि वागारम्भरूपे रुक्मिणीप्रदत्तपारिजातमञ्जरीविलोकनप्रभवं सत्यभामाया 1592रोषरामणीयकं प्राधान्यतः प्रतीयते ॥

रतावेव विपरीतोपमा यथा—

‘यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये तव 1593मुखच्छायानुकारी शशी ।
1594येऽपि 1595त्वद्गमनानुकारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥ ४८६ ॥’

अत्र विरहिणो रामस्य प्रियावयवसादृश्यदर्शनेनात्मानं विनोदयत 1596उपायभ्रंशादरतिप्रमवविषादवागारम्भे स्वरूपाभिधाने प्रक्षीणशक्तिरप्राघान्येनोपमा प्रतीयते ॥

रतावेव 1597पर्यायस्य यथा—

‘किं गुरुजहणं 1598अह थणभरो त्ति 1599भाअकरअलग्गतुलिआए1600
विहिणो 1601खुत्तंगुलिमग्गविब्भमं1602 वहइ से1603 तिवली ॥ ४८७ ॥’
[किं गुरुजधनमथ स्तनभर इति भागकरतलाग्रतुलितायाः ।
विधेः खाताङ्गुलिमार्गविभ्रमं वहत्यस्यास्त्रिवली ॥]

अत्र यद्यपि रतिप्रभवेभ्यो विस्मयादिभ्यः संशयहेतूत्प्रेक्षोपमा1604दिभ्यश्च पर्यायालंकारः प्राधान्येन प्रतीयते तथाप्यसौ वागारम्भानुभाव इति 1605रतावप्राधान्यमेवानुभवति ॥

  1. ‘एव’ ख
  2. ‘मुखच्छायानुकारः’ क ख
  3. ‘यो’ ख
  4. ‘त्वद्गमनानुसारिगतयः’ घ
  5. ‘उपायभ्रंशारतिप्रभ’ क
  6. ‘विपर्ययो’ क
  7. ‘अह थण’ क ख
  8. ‘भावअकरअ’ क
  9. ‘तूलिआए’ ख
  10. ‘खत्तंगुलि’ क
  11. ‘यगा विम्भम’ क, ‘थणचिब्भमं’ ख
  12. ‘स’ क
  13. ‘उपमाभ्यः’ क
  14. ‘रतावप्यप्राधान्यम्’ क ख