726

रतावेव समाधिर्यथा ।

‘कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले मध्येऽस्यास्त्रिवलीतरङ्गविषमे 1606निस्यन्दतामागता ।
मद्दृष्टिस्तृषितेव संप्रति शनैरारुह्य तुङ्गौ स्तनौ साकाङ्क्षं मुहुरीक्षते 1607जललवप्रस्यन्दिनी लोचनें ॥ ४८८ ॥’

अत्र वत्सराजेन स्वदृष्टौ प्राणिधर्माः समाधीयमानाः सागरिका1608दर्शनोत्थ1609रतिवागारम्भे न्यग्भवन्ति ॥

रतावेवार्थश्लेषस्य यथा—

‘कपोले पत्त्राली करतलनिरोधेन मृदिता निपीतो 1610निःश्वासैरयममृतहृद्योऽधररसः ।
मुहुर्लग्नः कण्ठे तरलयति 1611बाष्पः स्तनतटीं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥ ४८९ ॥’

अत्र यद्यप्याक्षेपेण वाक्योपसंहारस्तथापि प्रिय इत्यादिभिः प्राधान्येनाभिधीयमानः श्लेष एव श्रृङ्गारिणो वागारम्भानुभावा1612ङ्गतामङ्गीकरोति ॥

रतावेव पर्यायोक्तेर्यथा—

‘मुक्ताः कन्धरया 1613धृता स्तनतटेनोत्तुङ्गुता कुम्भयोरूरुभ्यां परिणाहिता क्रमवती हस्तस्य पभ्द्यां गतिः ।
एतद्वः करिघातिनस्तु कठिनं चर्मैव कोऽयं हठश्चण्डीति त्रिपुरारिकेलिवचनैरा1614र्यास्मितं पातु वः ॥ ४९० ॥’

अत्र भगवतश्चाटूक्तिवागारम्भे देव्याः पर्यायवर्णना 1615शेषभावं लभते-

  1. ‘निष्पन्दताम्’ क ख
  2. ‘जलभरप्रस्यन्दिनी’ क ख
  3. ‘दर्शनार्थे’ क ख
  4. ‘रति—’ क ख
  5. ‘निश्वासैः’ क ख ग
  6. ‘बाष्पस्तनतटी’ क, ‘वाष्पस्तनतटीं’ ग
  7. ‘अनुभावाङ्गत्वं’ क
  8. ‘कृताः’ क, ‘धृताः’ ख
  9. ‘आर्यान्वितं’ क
  10. ‘श्लेषभावं’ क ख