727 य1616 उदासीनेन वर्ण्यते सोऽलंकारप्रधानः स हि रसभावादेः संकरप्रकारमभिधित्सुः स्वभाबोक्तिं वक्रोक्तिं वावलम्बते ॥
तत्र स्वभावोक्तिपक्षे जातिः ॥
सा विधिमुखेन यथा—
[स्तोकापसरद्रोषं स्तोकस्तोकपरिवर्धमानप्रहर्षम् ।
भवति च दूरप्रकाशमुभयरसायत्तविभ्रमं तस्या मुखम् ॥]
अत्र सत्यभामाया रोषस्यापसर्पतः1621 प्रहर्षस्य च प्रसर्पतो येऽनुभावा जिह्नावलोकनमुखप्रसादादयस्त इह संकीर्यमाणाः कविनोभयरसायत्तविभ्रममित्यनेन1622 यथावदवस्थिता भवन्तीति विधिमुखेनाभिधीयन्ते ॥
जातिरेव निषेधमुखेन यथा—
[धैर्येण मानभङ्गो मानस्खलनेन गुरुकधैर्यारम्भः ।
उल्ललति तोल्यमाने एकस्मिन्नप्यस्याः स्थिरं न लगति हृदयम् ॥]