727 1616 उदासीनेन वर्ण्यते सोऽलंकारप्रधानः स हि रसभावादेः संकरप्रकारमभिधित्सुः स्वभाबोक्तिं वक्रोक्तिं वावलम्बते ॥

तत्र स्वभावोक्तिपक्षे जातिः ॥

सा विधिमुखेन यथा—

1617थोओसरंतरोसं 1618थोअत्थोअपरिवड्ढमाणपहरिसम् ।
होइ अ दूरपआसं 1619उहअरसाअंतविब्भमं1620 तीअ मुखम् ॥ ४९१ ॥’
[स्तोकापसरद्रोषं स्तोकस्तोकपरिवर्धमानप्रहर्षम् ।
भवति च दूरप्रकाशमुभयरसायत्तविभ्रमं तस्या मुखम् ॥]

अत्र सत्यभामाया रोषस्यापसर्पतः1621 प्रहर्षस्य च प्रसर्पतो येऽनुभावा जिह्नावलोकनमुखप्रसादादयस्त इह संकीर्यमाणाः कविनोभयरसायत्तविभ्रममित्यनेन1622 यथावदवस्थिता भवन्तीति विधिमुखेनाभिधीयन्ते ॥

जातिरेव निषेधमुखेन यथा—

‘धीरेण माणभंगो 1623माणक्स्वलणेण गरुअ धीरारम्भो ।
1624उल्ललइ तुलिज्जंते एकम्मि वि से थिरं ण लग्गइ हिअअं ४९२’
[धैर्येण मानभङ्गो मानस्खलनेन गुरुकधैर्यारम्भः ।
उल्ललति तोल्यमाने एकस्मिन्नप्यस्याः स्थिरं न लगति हृदयम् ॥]

अत्र यद्यपि हेतूपन्यासो वर्तते तथापि तस्य 1625स्वभावाख्यानपरिकरत्वेनाप्राधान्येन हृदयक्रियास्वरूपमेवेह1626 निषेधमुखेनाभिधीयत इतीयं जातिरेव भवति ॥

  1. ‘यत्र’ क ख
  2. ‘थोओउसरत’ क
  3. ‘थोअपरिवट्टमान’ क ख
  4. ‘उअह’ क ख
  5. ‘बिब्भंतीअ’ ख
  6. ‘अपसज्जतः’ क
  7. ‘उभयरसायत्तमित्यनेन’ ख
  8. ‘माणकवलणेण सहायं गरुअधीरारम्भो’ ख
  9. ‘उललइ तुलिते’ ख
  10. ‘भावाख्यानपरिकरत्वेन’ ख
  11. ‘स्वरूपमेव हि’ क