अत्र जन्मान्तरानुभवसंस्कारात्प्रतिकूलेऽपि शूलिनि 390शैलात्मजायाः सर्वकालमेवाविच्छिन्ना रतिश्चि391रवियुक्तस्य दुश्चरेणापि तपसा प्रार्थनीय573 -संगमस्य तस्याकस्मिकदर्शनेनोद्दीप्यमाना सद्यःसमुपजायमानसात्त्विकस्वेदस्तम्भवेपथूपलक्षितैर्हर्ष392स्मृत्यावेगसाध्वसादिभिर्व्यभिचारिभावैः393 394पदनिक्षेपलक्षणेन च शरीरानुभावेन संसृज्यते । सोऽयं विभावानुभावव्यभिचारिसंयोगे395 रतिरूपेण रसो निष्पद्यते ।

  1. ‘शिवायाः’ घ
  2. ‘चिरं वियुक्तस्य’ क ख
  3. ‘हर्षधतिस्मृत्यावेग-’ क ख
  4. ‘व्यभिचारिभिर्भावैः’ क ख
  5. ‘विक्षेपलक्षणेन’ क ख
  6. ‘संयोगैः’ क ख