572

अत्र देव्याः 383स्मरारौ पूर्वमुत्पन्ना रतिः साभिलाषतदवलोकन384विविक्तवसन्तादिभिरुद्दीप्यमाना रोमाञ्चावहित्थलक्षणाभ्यां सात्त्विकव्यभिचारिभ्यामनुबध्यते ॥

एकस्यैव पुनः 385पुनर्यथा—

‘यान्त्या मुहुर्वलितकंधरमाननं त- दावृत्तवृन्तशतपत्त्रनिभं वहन्त्या ।
दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥ ६ ॥’

अत्र मालत्या माधवविषये पूर्वमुत्पन्ना रतिर्वसन्तावतार386तत्संनिधिविशेषप्रदर्शनादिभिरुद्दीप्यमाना पुनः पुनरुत्पन्नेन वलितग्रीवकटाक्षविक्षेपलक्षणेन शरीरारम्भानुभावेनानुबध्यते । अत्रैव387 माधवस्य मालतीविषये तदहरेवोत्पन्ना रतिस्तैरेवोद्दीपनैरुद्दीप्यमाना हर्षधृतिस्मृतिमतिव्याध्यादिभिः संचारिभावैर्वागारम्भेण चानुभावेनानुबध्यते ॥

रतिरूपेणैव रसनिष्पत्तिर्यथा—

‘तं वीक्ष्य वेपथुमती सरसाङ्ग्यष्टि- र्निक्षेप388 एव पदमुद्धृतमर्पयन्ती389
मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ ॥ ७ ॥’

अत्र जन्मान्तरानुभवसंस्कारात्प्रतिकूलेऽपि शूलिनि 390शैलात्मजायाः सर्वकालमेवाविच्छिन्ना रतिश्चि391रवियुक्तस्य दुश्चरेणापि तपसा प्रार्थनीय

  1. ‘शिवे’ घ
  2. ‘तदवलोकनेन’ क ख
  3. ‘पुनःपुनरुत्पत्तिर्यथा’ ख
  4. ‘वसन्तावतारतः संनिधिविशेष’ घ
  5. ‘अत्र च’ घ पुस्तके पाठान्तरम्
  6. ‘निक्षेपणाय’ क ख मुद्रिते
  7. ‘मुद्धृतमुद्वहन्ती’ कुमारसंभवस्य मुद्रितपाठः
  8. ‘शिवायाः’ घ
  9. ‘चिरं वियुक्तस्य’ क ख