728
सैव विधिनिषेधाभ्यां यथा—
‘हेलोदस्तमहीधरस्य तनुतामालोक्य दोष्णो हरे-
र्हस्तेनांसतटेऽवलम्ब्य1627 चरणावारोप्य तत्पादयोः ।
शैलोद्धारसहायतां जिगमिषोरस्पृष्टगोवर्धना
राधायाः सुचिरं जयन्ति गगने वन्ध्याः करभ्रान्तयः ४९३’
अत्र राधायाः प्रेयसि हरौ 1628यथावदस्तितोद्भूतवृत्तिस्नेहशङ्कोत्साहा मिथः संकीर्यमाणा भयावेगस्मृतिमतिवितर्कादिभिर्व्यभिचारिभावैरालम्बनचरणाक्रमणसहकृतायां करभ्रान्तौ शरीरारम्भानुभावे प्रतीयमाना अस्पृष्टगोवर्धना वन्ध्या इति निषेधमुखेन जयन्तीति विधिमुखेन चाभिधीयन्ते ॥
वक्रोक्तिपक्ष उपमादयः ।
तेषूपमा यथा—
[चोराः सभयसतृष्णं पुनः पुनः प्रेषयन्ति दृष्टीः ।
अभिरक्षितनिधिकलश इव प्रौढमहिलास्तनोत्सङ्गे ॥]
अत्र 1631चौरगतभयानुरागयोः संकरस्वभावोक्तिमतिभूयोत्तरार्धागतमौपम्यं प्राधान्येन प्रतीयते ॥