728

सैव विधिनिषेधाभ्यां यथा—

‘हेलोदस्तमहीधरस्य तनुतामालोक्य दोष्णो हरे- र्हस्तेनांसतटेऽवलम्ब्य1627 चरणावारोप्य तत्पादयोः ।
शैलोद्धारसहायतां जिगमिषोरस्पृष्टगोवर्धना राधायाः सुचिरं जयन्ति गगने वन्ध्याः करभ्रान्तयः ४९३’

अत्र राधायाः प्रेयसि हरौ 1628यथावदस्तितोद्भूतवृत्तिस्नेहशङ्कोत्साहा मिथः संकीर्यमाणा भयावेगस्मृतिमतिवितर्कादिभिर्व्यभिचारिभावैरालम्बनचरणाक्रमणसहकृतायां करभ्रान्तौ शरीरारम्भानुभावे प्रतीयमाना अस्पृष्टगोवर्धना वन्ध्या इति निषेधमुखेन जयन्तीति विधिमुखेन चाभिधीयन्ते ॥

वक्रोक्तिपक्ष उपमादयः ।

तेषूपमा यथा—

1629चोरा सभअसतण्हं पुणो पुणो पेसअंति दिट्ठीओ ।
अहिरक्खिअणिहिकलसे व्व 1630पोढमहिलाथणुच्छंगे ॥ ४९४ ॥’
[चोराः सभयसतृष्णं पुनः पुनः प्रेषयन्ति दृष्टीः ।
अभिरक्षितनिधिकलश इव प्रौढमहिलास्तनोत्सङ्गे ॥]

अत्र 1631चौरगतभयानुरागयोः संकरस्वभावोक्तिमतिभूयोत्तरार्धागतमौपम्यं प्राधान्येन प्रतीयते ॥

  1. ‘हस्तेनास त एव’ क, ‘हस्तेनांसत एव’ ख
  2. ‘यथावदवस्थिता अद्भुत—’ ख
  3. ‘चोरा भअसतहणं पुणो पेसवति दिव्वीओ । अहिरस्थिअनिहिकलसे थयोक्कहलपूइखणुत्सङ्गे’ क
  4. ‘पोढवइआथणुच्छङ्गे’ गाथासप्त॰., ‘प्रौढपतिकास्तनोत्सङ्गे’ इति च्छाया च
  5. ‘चोरगत—’ ग घ