729

उपमैव रसाभाससंकरविषया यथा—

‘एकेनार्कं प्रविततरुषा पाटलेनास्त1632संस्थं 1633पश्यत्यक्ष्णा सजलतरलेनापरेणात्मकान्तम् ।
अह्नश्छेदे दयितविरहाशङ्किनी चक्रवाकी तौ संकीर्णौ रचयति रसौ नर्तकीव प्रगल्भा ॥ ४९५ ॥’

अत्र निगदेनैव 1634व्याख्याते स्पष्टतयैवोपमायाः 1635प्रधानत्वेन प्रतीतिः ॥

रसप्रशमयोरुपमासहोक्तिर्यथा—

‘दृष्टे लोचनवन्मनाङ्मुकुलितं पार्श्वस्थिते चक्रवन्न्यग्भूतं बहिरासितं पुलकवत्स्पर्शं समातन्वति1636
नीवीबन्धवदागतं शिथिलतामाभाषमाणे ततो मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि ॥ ४९६ ॥’

अत्र कस्याश्चित्सखीविख्यातमानसंविधानकोपान्मानवत्याः प्रियसंदर्शनादालम्बनविभावादुत्पन्नप्रकृष्टरतिप्रभवे1637 प्रहर्षस्थायिभावे 1638तत्पार्श्वोपसर्पणादिभिरुद्दीपनविभावैरुद्दीप्यमाने1639 समुत्पद्यमानेषु1640 1641पुलकादिषु मुखात्मकेषु व्यभिचारिषु नयननिमीलनाधोमुख्यनीवीविस्रंस1642नादिभिरनुभावैः प्रकर्षणारोपणादानन्दरस1643तामापाद्यमाने स्थायिनि प्रबलविरोधिभावान्तरोदयादेतेभ्य एव कारणेभ्यः प्रतिक्षणमपचीयमानयोर्लज्जारोषयोः प्रशमसंकराभिभूय प्राधान्येनोपमासहोक्तिः 1644प्रकाशते ॥

  1. ‘संस्थां’ क
  2. ‘पश्येत्युक्त्वा’ क
  3. ‘व्याख्यायते’ क
  4. ‘प्राधान्येन’ घ
  5. ‘तत्स्पर्शमातन्वति’ ख
  6. ‘रतिप्रभवहर्षस्थायिभावे’ क, ‘रतिप्रभवे’ प्रहर्षस्यापि भावे’ ख
  7. ‘तत्पार्श्वेऽपि समर्पणादिभिः’ क
  8. ‘उद्दीप्यमानेषु’ क
  9. ‘समुत्पद्यमानेषु’ क नास्ति
  10. ‘पुलकादिषु समुत्पद्यमानेषु व्यभिचारिषु’ क ख
  11. ‘विश्रंसनादिभिः’ ख
  12. ‘आनन्दरसानाम्’ ख
  13. ‘संकीर्यते’ क ख